SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आवश्यक- प्रदेशवृद्ध्या तस्यैवायोग्या असङ्खयेया अयोग्यत्वं चाल्पपरमाणुनिवृत्तत्वात्, प्रभूतप्रदेशावगाहित्वाच्च । एवं विलोमगत्या * नियुक्तिः मन:प्रभृतीनामपि । कालभाववर्गणा अपि प्रसङ्गत: कथ्यन्ते । कालत: एकसमयस्थितीनां यावदसङ्खयेयसमयस्थितीनाम् । भावत: श्रीतिलका- *स्थूलन्यायमङ्गीकृत्य कृष्णानां यावत् शुक्लानां सुरभिगन्धानां दुरभिगन्धानां च तिक्तरसानां यावन्मधुररसानां च, मृदूनां यावद्रूक्षाणां च, चार्यलघुवृत्तिः * गुरुलघूनामगुरुलघूनां च वर्गणा ज्ञेयाः । आद्यगाथायां कर्मवर्गणां यावद् वर्गणाः कथिताः । द्वितीयायां तु कर्मोपरि - कर्मवर्गणानन्तरं * आ. नि. * प्रदेशवृद्ध्या ध्रुवा नित्याः सर्वकालावस्थायिन्यो अनन्ताः । इतराः प्रदेशवृद्ध्या ततोऽनन्ताः अध्रुवा अशाश्वताः, कदाचिन्न सन्त्यपि । मङ्गलम् * 'सुन्नेयरत्ति' शून्यान्तरवर्गणा अशून्यान्तरवर्गणाश्च । तत्राद्याः प्राग् वर्गणातः एकप्रदेशवृद्ध्या वर्गणा भवन्ति । द्विप्रदेशवृद्ध्या तु न अवधिज्ञानम् भवन्ति । त्रिप्रदेशवृद्ध्या भवन्ति । चतुःप्र[ष्प्रदेशवृद्ध्या न भवन्ति । एवं शून्यान्तरवर्गणा अनन्ता भवन्ति । अशून्यान्तरवर्गणाऽपि वर्गणास्वरूपः । *अनन्ता भवन्ति । 'चउ धुवणंतरत्ति' ततश्चतस्रो ध्रुवानन्तराः । ध्रुवा अनन्तराश्च प्रदेशवृद्ध्या वर्गणा भवन्ति । ताश्चतस्रोऽपि 'तणुवग्गणाय गाथा-४० मीसो तहञ्चित्तो' केषाञ्चित्पुद्गलानामवस्थानेन केषाञ्चिद्विचटनेन औदारिकादितनुवर्गणायोग्यताभिमुखाः स्युः । अथवा * मिश्राचित्तस्कन्धयोग्या भवन्ति । ताभ्यः सकाशात्सूक्ष्म एव बादरपरिणामाभिमुखो मिश्रस्कन्धो भवति । तथा ताभ्य * एवाचित्तमहास्कन्धोऽपि । स च विश्र[स्र सापरिणामविशेषात्केवलिसमुद्धातगत्या लोकमापूरयन्नुपसंहरंश्च भवति । इतो वर्गणाविचारात् * * तैजसशरीरस्यातिस्थूलत्वेन ग्रहणायोग्यानि वर्गणाद्रव्याणि गुरुलघूनि, भाषायाश्चातिसूक्ष्मत्वेन ग्रहणायोग्यानि वर्गणाद्रव्याणि अगुरुलघूनि, * //////
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy