________________
आवश्यक- कुचिकर्णस्ततस्तेषां कृत्वा गोवर्गवर्गणाः । पृथग् वर्णादिभावेनापयञ्चारयितुं प्रधीः ।।८।। नियुक्तिः दृष्टान्तोपनयश्चात्र गोपेशः किल तीर्थकृत् । गोपकल्पा: पुन: शिष्या गावः पुद्गलराशयः ।।९।। श्रीतिलका- औदारिकादिभेदेन कृत्वा तद्वर्गणास्ततः । आर्पयनिर्विवादं स्यात्तासामवगमो यथा ।।१०।। चार्यलघुवृत्तिः अथ गाथार्थः प्रतिपाद्यते । इह वर्गणाः परमाणुराशिरूपाः, ताश्च औदारिकवैक्रियाहारकतैजसभाषानप्राणमनःकर्मवर्गणाः । आ. नि. * परमाणूनामेका वर्गणा, व्यणुकानामप्येका, एवं सङ्खयेयाणुकानां सङ्खयेयाः, असङ्खयेयाणुकानामसङ्खयेयाः, अनन्ताणुकानामनन्ताः
मङ्गलम्
अवधिज्ञानम् । * औदारिकाग्रहणयोग्याः । ता उल्लङ्घय पुद्गलवृद्ध्या अनन्ताणुकानामौदारिकद्रव्याणां अभव्यानन्तगुणसिद्धानन्तभागसङ्घयपुद्गलस्कन्धरूपाणां ।
वर्गणास्वरूपे *वर्गणाः, औदारिकशरीरग्रहणयोग्या अनन्ताः । ता उल्लङ्घय पुद्गलवृद्ध्या वर्द्धमाना औदारिकस्याग्रहणयोग्या अनन्ताः ।
दृष्टान्तः । औदारिकग्रहणायोग्यत्वं चासां प्रभूतद्रव्यनिर्वृत्तत्वात् सूक्ष्मपरिणामोपेतत्वाञ्च, वैक्रियस्य तु ता अत्यल्पपरमाणुनिवृत्तत्वात् *
गाथा-४० *बादरपरिणामयुक्तत्वाञ्च न ग्रहणयोग्याः । ततः पुनः प्रदेशवृद्ध्या वर्द्धमाना अनन्ता उल्लङ्घय वैक्रियग्राह्यत्वपरिणतपुद्गलस्कन्धवत्यो * वैक्रियग्रहणयोग्या भवन्ति । एवं सर्वत्र प्रथमा अयोग्याः ततो योग्याः ततोऽप्ययोग्या इति त्रयं त्रयं ज्ञेयम् । अथ द्रव्यवर्गणानामेतासां" * विपर्यासतः क्षेत्रे क्षेत्रतो वर्गणा भवन्ति । एकप्रदेशावगाहिनामेका द्विप्रदेशावगाहिनां द्वितीया एवं प्रदेशवृद्ध्या सङ्खयेयप्रदेशावगाहिनां - * सङ्घयेयाः, असङ्ख्येयप्रदेशावगाहिनामसङ्ख्या विलङ्घय प्रदेशवृद्ध्या प्रथमं कर्मणो ग्रहणयोग्या असङ्ख्येया वर्गणा भवन्ति, ततः
*****