SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः जघन्यावधिविषयद्रव्यं वर्गणाक्रमतो वाच्यमिति वर्गणास्वरूपं गाथाद्वयेनाह - ओरालविउव्वाहारतेयभासाणुपाणमणकम्मे । अह दव्ववग्गणाणं कमो विवज्जासओ खित्ते ।।३९।। कम्मोवरिं धुवेयरसुन्नेयरवग्गणा अणंताओ । चउधुवणंतरतणुवग्गणा य मीसो तहच्चित्तो ।।४०।। आह-औदारिकशरीरादिप्रायोग्यद्रव्यवर्गणाः किमर्थं प्ररूप्यन्ते ? उच्यते - शिष्याणामव्यामोहार्थम् । तथा च दृष्टान्त: - जम्बुद्वीप इति द्वीपश्चारुवृत्तः सुवर्णभाक् । मुखवळूमिभामिन्या लसल्लावण्यसागरः ।।१।। तत्रास्ति भरतक्षेत्रं वामेतरकपोलवत् । तस्मिन् मगधदेशोऽस्ति पत्रवल्लीमनोरमः ।।२।। तन्मध्यालिखितात्यन्तसुरेखाम्भोजसन्निभः । अभूद् ग्रामः सुघोषाख्यः सदालिकलितान्तरः ।।३।। कुचिकर्णोऽभवत्तत्र ग्रामणीमविश्रुतः । यशोदया कृतानन्दः कृष्णवद्गोकुलप्रियः ।।४।। समुद्रच्छन्नतुच्छश्रीर्गासहस्राधिपः क्रमाद् । यः शिश्राय श्रियं भानोर्नेवाभूत्तापनः पुनः ।।५।। ततश्चक्रे स गोपालान् बहून् बाहुल्यतो गवाम् । सहस्रादिप्रमाणानां पालनाय पृथक् पृथक् ।।६।। ___ गोचरेषु चरन्तीषु तासु सम्मिलितासु ते । निजाः सम्यगजानन्तो व्यवदन्त परस्परम् ।।७।। १. 'तहाच्चित्तो' ल, । 'तहचित्तो' ख ल । आ. नि. मङ्गलम् अवधिज्ञानम् वर्गणास्वरूपे दृष्टान्तः। गाथा ३९-४०
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy