________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः ३५६
************
सोsन्येद्युः स्वामिनो नेमेः श्रुत्वा धर्ममभूद् व्रती । विजहे स्वामिना सार्धं सेर्ष्यस्तस्मिन्नभूद् द्विजः । १० । क्रमेण प्रभुभिः साकं द्वारिकां पुनरागमत् । प्रभुं पृष्ट्वा पितृवने कायोत्सर्गेण संस्थितः | ११ | तथास्थं तत्र दृष्ट्वा तं रुष्टो दुष्टद्विजस्ततः । निवेश्य कण्ठकं मूर्ध्नि चिताङ्गारैरपूरयत् ॥१२॥ तत्कष्टं सहमानस्योत्पन्नं केवलमुज्ज्वलम् । अन्तकृत्केवलित्वेन तदैव प्राप निर्वृतिम् ॥ १३ ॥
विष्णुः प्रातः प्रभुं नत्वा साधूंश्चाऽपृच्छदच्छधीः । क्व मे बन्धुः प्रभुः स्माह निश्यस्थात्प्रतिमां बहिः ।१४। वासुदेवो गतस्तत्र परासुमवलोक्य तम् । कुपितः प्रभुमप्राक्षीत् केनाऽमारि प्रभुर्जगौ ॥१५ ॥ विशन्तं त्वां पुरीं दृष्ट्वा यस्य शीर्षं स्फुटिष्यति । कुटुम्बं प्रेष्य विप्रोऽपि स्वयं यावन्निरैति सः । १६ ।
तावद्दृष्टो विशन् विष्णुस्ततोऽतिभयसम्भ्रमात् । ययौ पतितवत्कुम्भस्तन्मुण्डं शतखण्डताम् । १७ । ।।७२४ ।। निमित्तादप्यायुः क्षीयते तच्चानेकधा स्यादित्याह -
दंडकससत्थरज्जू अग्गीउदगपडणं विसं वाला । सीउन्हं अरइ भयं खुहा पिवासा य वाही य ।।७२५ ।। मुत्तपुरीसनिरोहे जिन्नाजिने य भोयणे बहुसो । घंसणघोलणपीलण आउस्स उवक्कमा एए ।।७२६ ।।
**************
********
आ. नि.
सा. नि.
सामायिकनिर्गमकालद्वारे यथायुष्कोप
क्रमकालः ।
गाथा७२५- ७२६
३५६