SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ **** KXXX आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३५४ अस्या अर्थः कथाभ्योऽवसेयः । ताश्चेमा: । रागाद्यध्यवसानेन क्षीयते आयुः - एकस्य कस्याचिद्गावो ह्रियन्ते स्म मलिम्लुचैः । वालनाय गवां जग्मुः पत्तयस्तस्कराननु ।१। चलिता वालयित्वा गास्तत्रैकस्तरुणः पुमान् । गृहीताङ्ग इवानङ्गस्तृषितो ग्राममभ्यगात् ।२। तत्रैका ग्रामतरुणी तमऽपीप्यत् पयः परम् । शिरो धूनयतोऽप्यस्य निवृत्त्यै न न्यवर्त्तत ।३। स तूत्थाय युवाऽयासीत्सा तु तद्रूपमोहिता । अनुरागमहाधूर्तक्षिप्तचूर्णेव तद्वशा ।।। निध्यायन्ती तमेवाऽस्थात्तन्मयत्वमिवेयुषी । अदृश्यत्वं गते तस्मिंस्तस्याः प्राणास्तमन्वगुः ।५। स्नेहाध्यवसानेनाप्यायुः क्षीयते - एकस्य वणिजो यूनः प्रेयसी प्रौढयौवना । द्वयोरपि तयोः स्नेहः कोऽपि वाचामगोचरः ।१। स वाणिज्याय गत्वाऽथ प्रत्यावृत्तः समेष्यति । एकाहेन निजावासं यावत्तावत्परस्परम् ।२। वयस्याश्चिन्तयामासुः स्नेहः सत्योऽनयोन च । पूर्वमेकस्ततो गत्वा तस्य कान्तामवोचत ।। मृतस्तव पतिर्भद्रे ! श्रुत्वा वज्राहतेव सा । सत्यं सत्यमिदमिति पृष्ट्वा वारत्रयं मृता ।४। *.निवृत्त्ये अस्य शिरो धूनयतोऽपि (सा) न न्यवर्तत इति अन्वयः । 華藥業業樂業藥 आ. नि. सा. नि. सामायिकनिर्गमकालद्वारे यथायुष्कोपक्रमकालः। गाथा-७२४ XXX** ******** ३५४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy