________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
३४५
क्वापि न गन्तव्यं ? न हि गन्तव्यमवश्यं कारणे भक्तपानाऽऽनयनादौ । तत्र गमने आवश्यकी भवति, आवश्यकीत्युच्चारणं स्यात् ।। ६९३ ।। गमने कस्य साधोरावश्यकी भवतीत्याह -
आ. नि.
आवस्सया उ आवस्सएहिं सव्वेहिं जुत्तजोगिस्स । मणवयणकायगुत्तिंदियस्स आवस्सिया होई । । ६९४ ।।
सा. नि. सामायिक
अवश्यं भावं - आवश्यकम्, तस्मादावश्यकात् तृतीयार्थे पञ्चमी । अवश्यं भावेनैव आवश्यकैः प्रतिक्रमणादिभिः सर्वैर्युक्तस्य * प्राकृतत्वात्षष्ठीलोपः, योगिनः साधोर्मनोवचनकायेन्द्रियैर्गुप्तस्य आवश्यकी, गतौ उच्चारणीया स्यात् । कायस्थानामपीन्द्रियाणां प्राधान्यार्थं पृथग् वचनम् । द्वारम् । । ६९४ ।। नैषेधिकीविषयमाह -
* निर्गमकालद्वारे
सिज्यं ठाणं च जहिं चेएइ तहिं निसीहिया होइ । जम्हा तत्थ निसिद्धो तेणं तु निसीहिया होई । । ६९५ ।।
उपक्रमका दशधा
यत्र शय्यां करिष्यामि स्थानमवस्थानं करिष्यामीति, 'चेतयते' जानाति, तत्र नैषेधिकी उच्चार्या भवति । यस्मात् तत्रात्मा 'निषिद्धो' सामाचारी। ऽतिचारेभ्यो निरुद्धः तेन कारणेन नैषेधिकी निशीथक्रियैवाऽसञ्चला शयनध्यानमौनादिका क्रिया भवति । । ६९५ ।।
•
पाठान्तरं वा -
सेज्जं ठाणं च जदा चेतेति तया निसीहिया होइ । जम्हा तदा निसेहो निसेहमइया च सा जेणं । । ६९६ ।। इयं गाथा- ६९६, श्रीतिलकाचार्याऽमुद्रितावश्यके नास्ति । द्वयोरपि मुद्रितावश्यकयोः इयं गाथा वर्त्तते । क्रमाङ्कभेदो मा भूत् इति अत्रापि दर्शितास्ति ।
गाथा ६९४
६९६
३४५