________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
३४४
जस्स य इच्छाकारो मिच्छाकारो य परिचिया दोवि । तइओ य तहक्कारो न दुल्लहा सोग्गई तस्स ।।६९० ।। स्पष्टा । द्वारम् ।।६९०।। आवश्यकीनैषेधिकीद्वारद्वयमाह
आवस्सियं च नितो जं च अइंतो निसीहियं कुणइ । एयं इच्छं नाउं गणिवर ! तुब्भंतिए निउणं ।।६९१ ।। ‘निंतो’ निर्गच्छन् ।‘अयंतो’ आगच्छन् । 'एयं इच्छं नाउं' एतदिच्छामि ज्ञातुम्, स्पष्टं शेषम् ।। ६९१ ।। इति शिष्येण पृष्टे आचार्य आह - आवस्सियं च निंतो जं च 'नियंतो निसीहियं कुणइ । वंजणमेयं तु दुहा अत्थो पुण होइ सो चेव ।।६९२ ।। व्यञ्जनमेवैतद्विधा, अर्थः पुनः स एव भवति । अवश्यं कर्तव्या क्रिया आवश्यकी । निषिद्धातिचारस्य च क्रिया नैषेधिकी साप्यावश्यक्येव नाऽर्थभेदः । तर्हि भेदोक्तिः कथं ? गतिस्थितिक्रियाभेदादेव । गतिक्रियायामावश्यकी स्थितिक्रियायां नैषेधिकी कार्या ।।६९२।। गतिस्थित्योर्यतेः किं श्रेय इत्याह -
-
आ. नि.
सा. नि.
सामायिकनिर्गमकालद्वारे * उपक्रमकाले
दशधा
सामाचारी ।
* गाथा ६९०
६९३ ३४४
एगग्गस्स पसंतस्स न हुंति इरियाइया गुणा हुंति । गंतव्वमवस्सं कारणंमि आवस्सिया होइ ।।६९३।। एकाग्रस्य प्रशान्तस्य तिष्ठतो न भवन्तीर्यादयः संयमात्मविराधनारूपा दोषाः, किन्तु गुणाः स्वाध्यायध्यानादयो भवन्ति । तर्हि साधुना
'अयंतो' प छ । ।