________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
३३८
*****
जात्यवाह्लीकानामश्वानां जनपदेषु मगधादिषु जातानां स्वयमेव खलिनस्य कविकस्य ग्रहणं अथवापि बलाभियोगेन तथापुरुषजातेऽपि पुरुषविशेषेऽपि 'विनीतविनयेऽभ्यस्तवैनयिके नास्त्यभियोगः, शेषे विनयरहिते बलाभियोगो वर्त्तते । जनपदजाते यथाऽश्वे । कथा
चात्र -
दम्य: किशोरो वाह्रीको निशादावधिवासितः । प्रातरभ्यर्च्य वाह्यालीं नीतोऽगृह्णात्कवीं स्वयम् ॥१॥ विनीत इति भूपेनारूढो भूपेच्छयाऽवहत् । ततोऽवरुह्य राज्ञा स शेषाश्वानां कृतो धुरि |२| प्रतिजागरितः सम्यगाहारलयनादिभिः । बलाभियोगो नैवास्य प्रावर्त्तत कदाचन ॥३॥
अगृह्णान: कवीमन्यः कुट्टयित्वा कशादिभिः । प्रसह्य वाह्यते स्माऽश्वो यवसं च न्यरुध्यत ॥४॥
यः कुर्यान स्वयं लोके स बलादपि कार्यते । इच्छाकारं स्वयं दत्वा कार्यं मोक्षार्थिना हि तत् । ५ । ।।६७८-६७९ ।।
अनभ्यर्थितस्य करणं न युक्तमिति चेत् - इत्याह -
अब्भत्थणाइ मरुओ वानरओ चेव होइ दिट्ठतो । गुरुकरणे सयमेव य वाणियगा दुनि दिट्ठतो ।।६८० ।।
• निशादिः (पुं) सन्ध्या तत्र* लयनं विश्रामस्थानम् यवसं (न) तृणम् ।
आ. नि.
सा. नि. सामायिकनिर्गमकालद्वारे
उपक्रमकाले
दशधा
सामाचारी ।
गाथा - ६८०
३३८