SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः *** ३१२ वर्षोदकस्य, वाशब्दादन्योदकस्यैकरूपस्यापि सतः स्थानकविशेषाद्वर्णादयः स्युः । एवं सर्वेषामपि संज्ञिनाम् स्वस्वभाषासु सङ्गता आ. नि. *जिनभाषा तद्रूपतया परिणमति, अतः सर्वेऽप्युत्तरं विदन्ति ।।५७७।। अर्हद्वचःसौभाग्यमाह - सामायिक• साहारणासवत्ता तदुवओगो उ गाहगगिराए । न य निविजइ सोया किढिवाणियदासिआहरणा ।।५७८।। नियुक्तिः 'साधारणा' सर्वभाषानुगा, अत एवाऽसपना-अनन्यसदृशी तथा आत्मानं ग्राहयतीति ग्राहिका गीर्भगवद्वाणी । तदुपयोगात् तस्या अर्थावगमेन * निर्गमद्वारे * उपयोगात्, धर्मोपदेशलक्षणफलोपलम्भात् न निर्विद्यते श्रोता । 'किढि वृद्धा वणिग्दासी, तस्या उदाहरणात् । तच्चेदं - श्रीवीरइहास्ति नगरं राजगृहं राजगृहोपमम् । मत्तवारणसंशोभि भूरिक्षणमनोरमम् ।। वक्तव्यता तत्र श्रीश्रेणिको राजा यत्प्रतापार्तिशङ्कया । बभार शिरसा स्वर्गवाहिनीं तुहिनाचलः ।२। वचनातिशये अप्रमेययशोराशिर्धनस्तत्राऽभवद्वणिक् । ब्रह्माण्डकोष्ठकेऽप्यस्मिन्न ममुर्यद्यशःकणाः ।। दासीदृष्टान्तः। भार्याऽनार्याऽभवत्तस्य भद्रा भद्रेव देहिनी । तद्गृहे स्थविरा चासीदासी दारिद्र्यदेवता ।४। गाथा-५७८ दारुभारकमानेतुमन्यदाऽप्रेषि सा तया । भ्रमं भ्रममरण्यान्तर्मध्याह्ने तमुपानयत् ।५। तामूचे श्रेष्ठिनी पापा निःकृष्कृपा कालरात्रिवत् । एतैः खादसि यावञ्च न तावदपि पच्यते ।६। ३१२ स्वर्गवाहिनी - गङ्गा, ताम् । 準準準準準準準準準準準準 **************
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy