________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
३०९
तप्पुव्विया अरिहया पूइयपूया य विणयकम्मं च । कयकियोऽवि जह कहं कहेइ नमए तहा तित्थं । । ५६७ ।।
तीर्थं श्रुतज्ञानाधारसङ्घः । तदाराधनपूर्विका अर्हत्ता । 'पूजितपूजा च' अर्हतापि पूजितः सङ्घस्ततो लोकेऽपि पूज्यः स्यात्, विनयकर्म च कृतं स्यात् । शेषं स्पष्टम् । कृतकृत्यस्य धर्मकथापि नोचिता, नैवं, 'तं च कहं वेइज्जइ' इत्यनेन दत्तोत्तरत्वात् ।।५६७ ।। समवसरणे च क्व केन साधुना कियतो भूभागादाऽऽगन्तव्यमेवाऽनागमे किं प्रायश्चित्तमित्याह -
******:
जत्थ अपुव्वोसरणं अदिट्ठपुव्वं व जेण समणेणं । बारसहिं जोयणेहिं सो एइ अणागमे लहुया ।। ५६८ ।।
यत्र अपूर्वं अभूतपूर्वं समवसरणं भवति तत्र दृष्टपूर्वेणापि साधुना आगन्तव्यम्, अदृष्टपूर्वं च येन श्रमणेन स द्वादशभ्यो योजनेभ्यो ऽभ्येत्येव । अनागमे चतुर्लघुप्रायश्चित्तम् । द्वारम् । । ५६८ ।। तृतीयद्वारमाह
सव्वसुरा जइ रूवं अंगुट्ठपमाणयं विउव्विज्जा । जिणपायंगुट्टं पइ न सोहए तं जहिंगालो ।। ५६९ ।। जिनपादाङ्गुष्ठं 'प्रति' अव्ययत्वात्सन्निधावित्यर्थः । । ५६९ ।। प्रस्तावाद्गणधरादीनामपि रूपसम्पदमाह -
गणहर आहार अणुत्तरा य जाव वण- चक्कि - वासु-बला । मंडलिया जा हीणा छट्टाणगया भवे सेसा ।।५७० ।। तीर्थकररूपाद्गणभृतोऽनन्तगुणहीनाः । तेभ्य आहारकदेहास्तथा, तेभ्यो अनुत्तरसुराः तथा, तेभ्यो ग्रैवेयकादिसुराः पश्चिमानुपूर्व्या अनन्तअर्हतो भावः अर्हत्ता (भावे ता (तल) प्रत्ययः) |
आ. नि. सामायिकनिर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
समवसरणम् ।
गाथा ५६७
५७०
३०९