________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
३०८
******
वा प्रवेशाभिमुखाः निर्गच्छन्तो वा ऊर्ध्वस्था वा समवसरणद्धिं पश्यन्तः । द्वारम् ।।५६३ ।। द्वितीयद्वारमाह
सव्वं च देसविरइं सम्मं घिच्छइ व होइ कहणा उ । इहरा अमूढलक्खो न कहेइ भविस्सइ न तं च ।। ५६४ ।। सर्वविरतिं देशविरतिं वा सम्यक्त्वं वा ग्रहीष्यति, भवति 'कथना' व्याख्या । इतरथाऽन्यथा एकतरसामायिकग्राहकाऽभावे न कथयति । अमूढलक्षः प्रभुः । यथा योधो लक्षान्न मुह्यति, एवं स्वाम्यपि । 'भविष्यति न तच्च' तत्कथनस्वरूपं न भविष्यति यत्र भगवति कथयति कोऽपि किमपि सामायिकं न प्रपत्स्यत इति ।।५६४ । । कियन्ति सामायिकानि के प्रपद्यन्त इत्याह
-
मणुए चमन्त्रयरं तिरिए तिनि व दुवे व पडिवजे । जइ नत्थि नियमसु चिय सुरेसु सम्मत्तपडिवत्ती ।। ५६५ ।। मनुजश्चतुर्णामन्यतमत् सामायिकं प्रतिपद्यते । तिर्यञ्चः सर्वविरतिवर्जानि त्रीणि द्वे वा सम्यक्त्वश्रुतसामायिके । मनुजतिरश्चोः प्रतिपत्त्रोरभावे सुरेषु नियमत एव सम्यक्त्वप्रतिपत्तिः स्यात् ।। ५६५ ।। स कथं धर्ममाचष्टे इत्याह -
तित्थपणामं काउं कहेइ साधारणेण सद्देण । सव्वेसिं सन्नीणं जोयणनीहारिणा भयवं । । ५६६ ।।
तीर्थप्रणामं कृत्वा नमस्तीर्थायेति वाचा । कथयति 'साधारणेण' सर्वभाषासंवादिना शब्देन सर्वेषां संज्ञिनां अमरनरतिरश्चां योजननिर्हारिणा भगवान् । । ५६६ ।। कृतकृत्यः प्रभुः कथं तीर्थं नमतीत्याह -
योजननिहारिणा योजनव्यापिना शब्देन इत्यर्थः ।
********
आ. नि. सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
समवसरणम् ।
गाथा ५६४५६६
३०८