SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तिः श्रीतिलका- चार्यलघुवृत्तिः १९ द्वितीयसमये संहत्य करोत्यसौ शूचिम्, सङ्ख्यातीताख्याङ्गुगुलविभागविष्कम्भमाननिर्दिष्टां निजतनुपृथुत्वदैर्ध्याम् । तृतीयसमये तु संहत्य * उत्पद्यते च पनक: स्वदेहदेशे । स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति, तावज्जघन्यमवधेरालम्बनभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणस्वसम्प्रदायात्समवसेयम् । किमित्येवं कल्पते इति चेत्, उच्यते, स एव प्रयत्नविशेषात् सूक्ष्मावगाहनः स्यान्नान्य इति * ॥३०॥ अथोत्कृष्टमाह - सव्वबहुअगणिजीवा निरंतरं जत्तियं भरिज्जासु । खित्तं सवदिसागं परमोहीखित्त निद्दिट्टो ।।३१।। क्षेत्रमाश्रित्य निर्दिष्टः कथितः । अस्यायं भावार्थ:-सर्वबह्वग्निजीवा बादराः प्रायोऽजितस्वामिकाले भवन्ति, तदारम्भकमनुष्यभूयस्त्वात् । * तेषां कल्पनया श्रेणीकृत्वाऽवधिज्ञानिन: सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते । सा चाऽसङ्खयेयानलोके लोकमात्रान् क्षेत्रविभागान् * *व्याप्नोति । एतावदवधिक्षेत्रमुत्कृष्टम् । एतावति क्षेत्रे यद् दृश्यं स्यात्तत्पश्यति, न त्वलोके दृश्यमस्ति ।।३१।। मध्यमावधिक्षेत्रकथनाय * गाथाचतुष्टयमाह - * अंगुलमावलियाणं भागमसंखिज्ज दोसु संखिज्जा । अंगुलमावलियंतो आवलिया अंगुलपुहुत्तं ।।३२।। *१. मुनिगणसुसंप्रदायात् प । आ. नि. मङ्गलम् अवधिज्ञानम्। गाथा३१-३२
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy