________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
१८
*****************************
। ५ । तीव्रः शुद्धोऽतीव्रोऽशुद्धः । ६ । प्रतिपातोत्पादौ च । ७ । ज्ञान । ८ । दर्शन । ९ । विभङ्गाः । १० । देशो देशावधिः सर्वावधिश्च । ११ । क्षेत्रं सम्बद्धासम्बद्धादि क्षेत्रावधिः । १२ । 'गई इय' गत्यादिद्वारजाले । १३ । ऋद्धिप्राप्तानुयोगश्च । १४ । एवमेताः प्रतिपत्तयोऽवधिप्रकृतयः ।।२७ - २८ ।। तत्रादौ अवधिनिक्षेपमाह -
नामं ठवणादवि खित्ते काले भवे य भावे य । एसो खलु निक्खेवो ओहिस्सा होइ सत्तविहो ।। २९ ।। नामावधिर्यस्यावधिरिति नाम क्रियते यथा मर्यादायाः । स्थापनावधिः आघाटास्थापनं अक्षादौ वा । द्रव्ये द्रव्यविषयेऽवधिर्द्रव्यावधिः । यत्र क्षेत्रे काले वाऽवधिरुत्पद्यते व्याख्यायते वा तौ क्षेत्रकालावधी । भवो नारकादिस्तत्रावधिर्भवावधिः क्षायोपशमिकादाववधिर्भावावधिः । शेषं स्पष्टम् ।। २९ ।। जघन्यावधिक्षेत्रपरिमाणमाह -
| भावे
जावईया तिसमयाहारगस्स सुहम्मस्स पणगजीवस्स । उग्गाहणा जहन्ना ओहीखित्तं जहन्नं उ ।। ३० ।। अक्षरार्थः स्पष्टः । सम्प्रदायस्त्वत्र योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः उत्पद्यते स हि सूक्ष्मः पनकत्वेनेह संग्राह्यः । संहृत्य चाद्यसमये स ह्यायामं करोति च प्रतरं सङ्ख्यातीताख्याङ्गुलविभागबाहुल्यमानम्, स्वतनुपृथुत्वमात्रं दीर्घत्वेनापि, जीवसामर्थ्यात् । तदपि
१. ओगाहणा ल प छ ख । आघाट:-सीमा ।
आ. नि.
मङ्गलम् अवधिज्ञानम् ।
गाथा२९-३०
१८