SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आवश्यक- *खरकस्तत्र पूर्वागतः, प्रभुं दृष्ट्वा स्माह भगवान् सशल्य इति । सिद्धार्थेनोक्तं निःशल्यः क्रियताम्, एवं कृते महीयान् धर्मानुबन्धः । तयोरेवं * नियुक्तिः *वदतोः प्रभुः पारणकं कृत्वा बहिरुद्याने प्रतिमया स्थितः । पश्चात्सिद्धार्थखरको भेषजादिकं सहायांश्चादाय प्रभुपार्श्व गतौ । ततः प्रभुं * आ. नि. श्रीतिलका- * तैलैरभ्यज्य मर्दयित्वा बहुभिर्मानुषैराक्रम्य धृत्वा सन्दशकाभ्यां महाप्राणेन कर्णगते शलाके समाकृष्टे । आकृष्यमाणयोश्च शलाकयोः * सामायिकचार्यलघुवृत्तिः * स्वामिना महत्याराटिर्मुक्ता । तान्मनुष्यानुत्पाट्योत्थितस्तत्र महाभैरवं वनं जातम् । तदैव संरोहण्यौषध्या प्रभुः प्रगुणीकृतः । ततो वन्दित्वा * नियुक्तिः २९६ क्षमयित्वा तौ गतौ । पश्चात्स गोपः सप्तमी गतः । खरकसिद्धार्थों महावेदनाजनकावपि दिवं गतौ ।।५२५ ।। ततः - निर्गमद्वारे * जिंभिय बहि उज्जुवालिय तीरे वियवत्त सामसालअहे । छटेणुक्कुडुयस्स उप्पन्नं केवलं नाणं ।।५२६।। श्रीवीर* ततः स्वामी जृम्भकग्रामं गतः । तस्य बहिरृजुपालिकानदीकूले अव्यक्तचैत्यासन्ने श्यामाकगृहपतेः क्षेत्रे शालतरोरधः षष्ठेन भक्तेन * गोपोपसर्गः । * वैशाखशुद्धदशम्यां उत्तरफाल्गुनीनक्षत्रे दिनपाश्चात्यप्रहरे उत्कुटिकासनस्थस्य प्रभोः केवलज्ञानमुत्पन्नम् । उपसर्गाः समाप्ताः ।।५२६ ।। * गाथातपसा केवलज्ञानमुत्पन्नमिति यद्यथा स्वामिना तपश्चक्रे तत्तथाह - ५२६-५२७ * जो उ तवो अणुचिनो वीरवरेणं महाणुभावेणं । छउमत्थकालियाए अहकम्मं कित्तइस्सामि ।।५२७।। २९६ १. 'प्राणेन' छ प । २. 'कर्णगतेन' ल, छ प । 「崇義紧紧紧紧紧紧紧紧紧 **********
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy