________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२९५
撥撥槪:
************
पर्युपासाते देवपूज्योऽयं किमपि जानातीति स्वातिदत्तः पृच्छति । किं स्वरूप आत्मा ? किं प्रदेशनं प्रत्याख्यानं वा । 'व्याकरणं' स्वामिना चिद्रूप आत्मेत्यादि कथनम् । 'प्रदेशनं' उपदेशः । स द्विधा - धर्मोपदेशो अधर्मोपदेशश्च । प्रत्याख्यानमपि द्विविधं मूलगुणप्रत्याख्यानं उत्तरगुणप्रत्याख्यानं च । एतैः पदैस्तेन धर्मोऽधिगतः ।। ५२३ ।। ततः -
भियगामे नाणस्स उप्पया वागरेइ देविंदो । मिंढियगामे चमरो वंदण पियपुच्छणं कुणइ ।। ५२४ ।।
ततः स्वामी जृम्भिकाग्रामं गतः । देवेन्द्रस्तत्राऽऽगत्य वन्दित्वा नाट्यविधिमुपदर्श्य एतावद्भिर्दिनैर्वः केवलज्ञानमुत्पत्स्यते इति व्याकरोति । ततः प्रभुर्मेण्ढिकग्रामं गतः । तत्र चमरेन्द्रो वन्दनं प्रियपृच्छनं च करोति ।।५२४ । । ततः - छम्माणि गोप कडसलपवेसणं मज्झिमाइ पावाए । खरओ विज्जो सिद्धत्थ वाणिओ नीहरावेइ ।।५२५ ।।
ततो भगवान् छम्माणिग्रामं गतः । बहिः प्रतिमया स्थितः । तत्र स्वामिसमीपे गोपो बलीवर्दी विमुच्य मध्येग्रामं गतः । बलीवर्दी च चरितुमटवीं गतौ । गोपश्च गोदोहादिकं कृत्वा आयातः । पप्रच्छ देवार्य ! क्व गतौ मे बलीवर्दी ? प्रभुर्मोनेनाऽस्थात् । ततः प्राग्भववैरात् कुपितो गोपः । अये ! मदुक्तं न शृणोषीति जल्पन् काशशलाकिके स्वामिनः कर्णयोः प्रवेशयामास यथा द्वे अपि अन्तर्मिलिते । ततः स्वामी मध्यमापापान्तर्गतस्तत्र सिद्धार्थो नाम वणिक् । तस्य गृहे प्रभुभिक्षार्थं प्रविष्टः । प्रतिलाभितः । सिद्धार्थो वन्दते स्म, तदा च तन्मित्रं
आ. नि.
सामायिक
निर्युक्तिः
श्रीवीर
वक्तव्यता
गोपोपसर्गः ।
गाथा-५२४
५२५
२९५