________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
२९२
****
************
व्याधिर्यावत्सुकुमारस्तावदेतं छिनद्ययहम् । गते श्रेष्ठिन्यथाऽऽहूय नापितं ताममुण्डयत् ।४१ | निगडैर्यन्त्रयित्वांही क्षिप्त्वा क्वापि गृहान्तरे । श्रेष्ठिनोऽवारि कथयन् सर्व: परिजनोऽनया । ४२ । मूला मूलगृहेऽयासीद्धोक्तुं श्रेष्ठी गृहाऽऽगतः । क्व चन्दनेति पप्रच्छ मूलाभीतो न कोऽप्यवक् ॥ ४३ ॥ सोऽज्ञासीद्रममाणा सा भविष्यत्यथवोपरि । पृष्टा निश्यपि नाऽऽख्याता ज्ञातं सुप्ता भविष्यति ॥४४॥ द्वितीयेऽप्यह्निनाऽदर्शि तृतीयेऽप्यनवेक्ष्य ताम् । ऊचे श्रेष्ठी न यो जानन्नाख्याता स हनिष्यते ॥ ४५ ॥ ततः स्थविरया दास्यैकया मज्जीवितेन सा । जीवत्वित्याचचक्षेऽस्य चन्दनाचारकक्रियाम् ॥४६ । दृषदा तालकं भङ्क्त्वा तद् द्वारमुदघाटयत् । क्षुत्तृषार्त्ता निरीक्ष्यैतामाश्वास्याऽथ धनावहः । ४७ । पश्यन् भोज्यं कृते तस्या नाऽपश्यत् किञ्चनापि सः । कुल्माषान् वीक्ष्य दत्वाऽस्यै सूर्पकोणे निधाय तान् ।४८ । निगडानां भञ्जनायाऽगात्कर्मारगृहे स्वयम् । तदा सा कुलमस्मार्षीद्दुःखपूरेण पूरिता । ४९ ।
क्क मे राजकुलं तादृक् दुर्दशा क्वेयमीदृशी । किं मया प्राक् कृतं कर्म विपाकोऽयं यतोऽभवत् ॥५०॥ स्वौकसि द्व्यासनस्यापि तपसः पारणादिने । साधर्मिकाणां वात्सल्यं कृत्वा पारणकं व्यधाम् ॥५१॥ कस्याप्यदत्वा किमपि षष्ठपारणके कथम् । अनामीत्यतिथेर्मार्गं पश्यन्त्यास्तेऽत्ति सा न तु ॥५२॥
********
आ. नि. सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
चन्दना ।
गाथा - ५२१
२९२