SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २९१ विक्रेष्ये कन्यकां चैतां राज्ञी श्रुत्वेति दुःखिता । मृता हृदयसङ्घट्टात् स्वशीलभ्रंशशङ्कया ।२९। दध्यिवानौष्ट्रिकोऽथान्तर्युक्तं नोक्तमिदं मया । सुताऽथ रुदती तेन नीता सम्बोध्य चाटुभिः ।३०। चतुःप[ष्प]थेऽथ विक्रेतुं दत्वा मूर्ध्नि तृणं धृताम् । कन्यामऽनन्यसामान्यां दृष्ट्वा श्रेष्ठी धनावहः ।३१। दध्यो राज्ञः सुता कस्याऽपीश्वरस्याऽथवा भवेत् । तन्माऽऽपदां पदमसौ क्वापि हीनकुले गता ।३२। बालेयं स्वजनैर्जातु मिलेदस्मद्गृहे स्थिता । पत्त्यर्थितमथ द्रव्यं दत्वा तामग्रहीद्धनः ।३३। नीत्वा सा स्वगृहं पृष्टा कन्ये ! कासीति नाऽवदत् । सुतेत्यथ प्रपन्ना सा श्रेष्ठिना मूलयाऽपि च ।३४। चिखेल स्वेच्छया श्रेष्ठिगेहे स्ववेश्मनीव सा । सुवाग्विनयशीलाद्यैर्गृहलोको वशीकृतः ।३५। स लोकस्तां ततोऽवादीत्तैर्गुणैश्चन्दनेत्यसौ । ततो द्वितीयमेवैतत्रामाऽभूद् विश्वविश्रुतम् ॥३६ । ग्रीष्मेऽन्यदा मध्यमाते श्रेष्ठी मन्दिरमाऽऽगमत् । कोऽप्यहिक्षालको नाऽऽसीत्तदाऽढोकिष्ट चन्दना ।३७ । श्रेष्ठिना वार्यमाणाऽपि बलादक्षालयत्पदौ । क्षालयन्त्यास्तदा तस्याश्छुटिता केशवल्लरी ।३८ । पतन्ती पाणियष्ट्येव धृत्वा श्रेष्ठी बबन्ध ताम् । सार्द्रायां माऽपतद्भूमो मूलैक्षत गवाक्षगा ॥३९॥ अचिन्तयत्ततो मूला मया कार्यं विनाशितम् । यद्येतामुद्वहेत् श्रेष्ठी तदाऽहं पतिता बहिः ।४०। १. 'मापदापदं' ल, ख । आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता चन्दना। गाथा-५२१ K********* २९१ Care
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy