SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ PATH आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २९० मन्त्र्यूचे श्व: प्रकर्तास्म्यादत्ते भिक्षा प्रभुर्यथा । मृगावत्याः प्रतीहारी विजया वदतामिति ।१६ । आगात् श्रुत्वा तमुल्लापं स्वस्वामिन्यै न्यवेदयत् । आकर्ण्य साऽपि तां वार्ता महतीमधृतिं दधौ ।१७। उपालब्धस्तयाऽऽयातो राजा राज्येन किं तव । इयश्चिरं भ्राम्यतोऽपि न भिक्षाभिग्रहं प्रभोः ।१८। त्वमज्ञासीन वाऽज्ञायि स्थितोऽप्यत्र प्रभुस्त्वया । राजोचे मा स्म खियेथाः सर्वं भव्यं करिष्यते ।१९। इत्याश्वास्य महादेवीं राजा सचिवमाह्वयत् । अप्राक्षीच प्रभोभिक्षाभिग्रहं सोऽपि नाऽविदत् ।२०। आकार्याऽप्रच्छि भूपेन नामतस्तथ्यवाद्यपि । विवेदाऽभिग्रहं नैव ज्ञेयोऽतिशायिना हि सः ।२१। राजाऽथाऽघोषयत्पुर्यां भिक्षार्थ भ्राम्यतः प्रभोः । सर्वप्रकारैर्दातव्या भिक्षा गृह्णीत कामपि ।२२। राजाऽऽज्ञया च भक्तया च चक्रिरे ते तथा जनाः । नाऽग्रहीत्तैः परं स्वामी प्रकारैरखिलेरपि ।२३। इतश्च नगरी चम्पा नरेन्द्रो दधिवाहन: । तामादातुं शतानीको नौसैन्येन स्म गच्छति ।२४। निशैकया गतश्चम्पामऽवेष्टयदचिन्तिताम् । चम्पापतिः पलायिष्ट तदानीं दधिवाहनः ।२५। यद्ग्रहो घोषितस्तत्र शतानीकमहीभुजा । तदनीकभटाश्चम्पां स्वेच्छया मुमुषुस्ततः ।२६। औष्ट्रिकः कोऽपि जग्राह दधिवाहनवल्लभाम् । वसुमत्या समं पुत्र्या नश्यन्ती धारणी तदा ।२७। कृतकृत्यः शतानीको निजं नगरमाऽऽगमत् । औष्ट्रिकोऽप्याह लोकानां पत्न्येषा मे भविष्यति ।२८। आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता चन्दना। गाथा-५२१ २९० *******%
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy