________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२८९
·華準準準準準準
मन्त्री सुगुप्तमन्त्रोऽभूत्सुगुप्तो नाम विश्रुतः । तद्भार्या श्राविका नन्दा मृगावत्याः प्रिया सखी ।४। तथ्यवादी यथार्थाख्यस्तत्राऽभूद् धर्मपाठकः । आसीद्धनावहः श्रेष्ठी मूला तस्य च गेहिनी ।५। विहरन्नागमत्तत्र स्वामी वीरजिनेश्वरः । पोषकृष्णप्रतिपदि गृह्णात्यमुमभिग्रहम् ।६। द्रव्यतो राद्धकुल्माषा: सूर्पकोणैकदेशगा: । क्षेत्रतो देहलीमध्यबहिःस्थैकैकपादका ७। कालतो विनिवृत्तेषु सर्वभिक्षाचरेषु च । भावतो भूभुजः पुत्री दैवाद्दासत्वमीयुषी ।८। गाढं निगडबद्धाहिर्मुण्डिताखिलमस्तका । रुदत्यतिक्षुधाक्रान्ता दास्यते चेद् ग्रहीष्यते ।। इत्यभिग्रहवान् स्वामी कौशाम्ब्यां तस्थिवान् पुरि । भिक्षाचर्यामकार्षीच दिवसे दिवसे प्रभुः ।१०।। यतोऽमुष्यामुदीयन्ते द्वाविंशतिः परिषहाः । एवं च मासाश्चत्वारः कोशाम्ब्यां भ्रमतोऽगमन् ।११। नन्दागृहे प्रविष्टोऽथ तया ज्ञात: प्रभुस्ततः । अत्यादरेणोपनिन्ये भिक्षां स्वामी च निर्ययो ।१२। सा चकाराऽधृतिं दास्यस्तामूचुर्देवि ! नित्यशः । देवार्योऽभ्येति गेहेऽत्र भिक्षां गृह्णाति जातु न ।१३। साऽथाज्ञासीद्भगवतोऽभिग्रहः कोऽपि विद्यते । ततः श्याममुखीं दृष्ट्वाऽपृच्छन्मन्त्र्यभ्यधाच सा ।१४। चतुर्मास्याः प्रभुर्नाऽर्वाग् भिक्षां गृह्णात्यभिग्रही । तत्किं ते धीसखत्वेन यदेतदपि वेत्सि न ।१५।
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता चन्दना। गाथा-५२१
************
२८९
*******