SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ EX****** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः * २९३ 半準準準準準準準準華華華華謙謙謙謙謙 मध्येऽहिमेकं देहल्या बहिः कृत्वा द्वितीयकम् । द्वारशाखाविलग्नाऽऽस्ते रुदती मन्दमुन्मनाः ॥५३। तदाऽऽगाद्भगवान्वीरो भिक्षार्थं तमवेक्ष्य सा । अहो पात्रं मया प्राप्तं किञ्चित्पुण्यं ममाऽस्त्यपि ॥५४। नोचितं वः प्रभो ! देयं परं कृत्वा कृपां मयि । कल्पते चेदाऽऽददीध्वं ज्ञात्वाऽथाऽवधिना प्रभुः ।५५ । पूर्णोऽद्याभिग्रह इति पाणिपात्रमधारयत् । कुल्माषांस्तान्ददौ सर्वान् धन्यंमन्याऽतिभक्तितः ।५६। सार्द्धा द्वादशकोट्यस्त्वपतन् स्वर्णस्य तद्गृहे । चेलोत्क्षेपः पुष्पगन्धवृष्टयो दुन्दुभिध्वनिः ।५७। केशपाशस्तथैवाभूद्गिगडानि च पादयोः । स्वर्णनूपुरतां भेजुर्वपुःकान्तिनवाऽभवत् ।५८। तत्क्षणाअन्दना चक्रे सुरैः सर्वाङ्गभूषिता । आययौ देवराट् शक्रः प्रमोदभरनिर्भरः ५९। दुन्दुभिध्वनिमाकर्ण्य ज्ञात्वा पारणकं प्रभोः । शतानीकः सपत्नीकोऽप्यागमद्धनवेश्मनि ।६०। धाट्याऽऽनीतः सम्पुलोऽभूदृधिवाहनकञ्चकी । सोऽप्यागात्तत्र तां वीक्ष्य तदंयोः प्रणिपत्य च ।६१। मुक्तकण्ठं रुदन् सोऽथ कैषेत्यप्रच्छि भूभुजा । सोऽवक् चम्पेशपुत्रीयं वसुमत्यभिधानतः ।६२। तादृश्यपि कथं प्रेष्यभावं प्राप्तेति रोदिमि । मृगावती तदाऽऽकाऽवोचन्मेऽसौ स्वसुः सुता ।६३। अमात्योऽपि सपत्नीकस्तत्रैत्याऽवन्दत प्रभुम् । पञ्चाहन्यूनषण्मास्याः कृत्वा पारणकं प्रभुः ।६४। 非業藥華藥藥華藥 आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता चन्दना। गाथा-५२१ २९३
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy