SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २८३ ऋतुषट्कं देवाङ्गनागीतनृत्यादिकं च कृतवानित्याद्यनुलोमोपसर्गेणाऽपि न प्रभोर्ध्यानं व्यलीयत ।।५०५।। ततः सुराधमः किं* * दध्यावित्याह - उवहयमइवित्राणो ताहे वीरं पहुं पसाहेउं । ओहीए निज्झायइ झायइ छज्जीवहियमेव ।।५०६।। * ततः स सुराधमः उपहतमतिविज्ञानो विफलीभूतोपक्रमः, वीरं प्रभुं बहु 'प्रसाधयितुं' वशीकर्तुं । अवधिना निध्यायति । निध्यायंश्च प्रभुः षड्जीवहितमेव ध्यायति न ध्यानं मुञ्चतीति ज्ञात्वा गाढतरमभिनिविष्टः । कल्ये ध्यानं भक्ष्यामीति अपासरत् ।।५०६।। ततः प्रभुः प्रभाते * किं व्यधादित्याह - वालुयपंथे तेणा माउलपारणग तत्थ काणच्छी । तत्तो सुभोम अंजलि सुच्छित्ताइ य विडरूवं ।।५०७।। ततः स्वामी वालुकाग्रामं प्रस्थितः । तत्रान्तरे पञ्चचौरशतानि विचक्रे । भुवि जानुदनी वालुकां च । अथ चोरैर्मातुल मातुल स्वागतमिति *व्याहृत्य तथा सस्वजे यथा महाशिलाऽपि स्फटेत् । ततः प्रभुर्निमज्जत्यदः कृच्छ्रेण वालुकार्णवमुत्तीर्य वालुकाग्रामं गतः । तत्र पारणका) । प्रविष्टस्य प्रभो रूपमावृत्य स सुरः काणाक्षादिरूपां विटचेष्टां युवतीनां दर्शयति । ततस्तत्र हन्यते । ततः सुभूमग्रामं गतः । तत्राऽपि * भिक्षाचर्यायां प्रभुस्वरूपमावृत्य महिलानां पुरः कृताञ्जलिबन्धं रूपं दर्शयति । तत्रापि हन्यते । ततः सुक्षेत्रग्रामे गतः । तत्र भिक्षायां * प्रभुमावृत्य विटरूपं करोति । हसति गायति अट्टहासं मुञ्चति । अशिष्टानि जल्पति । तत्रापि हन्यते ।।५०७॥ ततः . * श्रीमलयगिरिवृत्ती इयं गाथा दर्शिता नास्ति । ततः गाथाक्रमभेदोऽस्ति । आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता सङ्गमः । गाथा५०६-५०७ २८३
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy