SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ F**** आवश्यक- एकरात्रिकीप्रतिमास्थस्य प्रभोः सङ्गमकसुराधमः प्रथमं धूल्युपसर्ग करोति । धूलिपटलेन पिधाय निरुच्छ्वासं चकार । ततः नियुक्तिः * पिपीलिकाभिर्वज्रतुण्डाभिः स्वाम्यङ्गं चालनीप्रायमकारयत् । तत उत्कटैर्दशैरत्रोटयत् । तत 'उन्होला' 'घृतेलिकास्ताभिरपीडयत् । ततो * श्रीतिलका * वृश्चिकैर्नकुलैः सर्मूषकैश्चाष्टमकैः कदर्थयामास । परं स्वामी ध्यानान्नाऽचलत् । तथा हस्तिना “हस्तिन्या "पिशाचरूपेण * चार्यलघुवृत्तिः "घोरव्याघ्ररूपेण 'स्थविरः' सिद्धार्थ: "स्थविरा' त्रिशला ताभ्यामात्मदैन्यं प्रकाशयद्भ्यां क्षोभितोऽपि नाऽक्षुभ्यत् । "सूदेन पादयोरुपरि * स्थाली मुक्त्वाऽधोग्निं प्रज्वाल्य पाके क्रियमाणेऽपि नाऽचालीत् । तथा 'पक्वणेन' चण्डालेन स्वामिनः कर्णयोर्बाह्वोः पक्षिपञ्जरविलगनात् * २८२ पक्षिचञ्चप्रहारोच्चारप्रश्रवणैश्च न चेले । ततः "खरवातं विचक्रे । तेन प्रभुरुत्क्षिप्योत्क्षिप्यानेकशः पातयाञ्चक्रे । तथा कलङ्कलिकावातं * * विचकार । तेन चक्राधिरोपितमृत्पिण्ड इव महार्णवाऽऽवर्त्तपतितपोत इव महावेगेन सुचिरं "भ्रम्यते स्म । तथापि प्रभोर्ध्यानदीपो न * * विध्यातः । तथा "भारसहस्रलोहमयचक्र विकृत्य प्रभोरुपरि मुमोच, येन मेरुचूलापि चूर्यते । तदाऽऽघातेन प्रभुराजानु भुवि निर्मग्नः । तथाऽपि * प्रभोर्ध्यानगोलो न पुस्फोट । "प्राभातिक उपसर्गोऽयं-प्रभातं दर्शयति, येन प्रभातमिति मत्वा ध्यानमुज्झति, परं प्रभुर्ज्ञानेन जानाति नाद्यापि *प्रभातं भवति, अतो न पारयति । एष विंशतितम उपसर्गोऽथवाऽनुलोमो विंशः ।।५०२-५०३-५०४ ।। स चायं सामाणियदेविदि देवो दाएइ सो विमाणगओ । भणइ य वरेह महरिसि ! निष्फत्तिं सग्गमुक्खाणं ।।५०५।। * सामानिकदेवद्धि देवः सङ्गमको दर्शयति, स विमानगत: भणति च वृणु महर्षे ! निष्पत्तिं स्वर्गमोक्षयोः । तथाप्यनुक्तवति प्रभौ के 'भ्रम्' धातोः, णिगन्त-कर्मणि, व.का. तृ.पु ए.व रूपः, [अमोऽकम्यमि-चमः] ४-२-२६ सूत्रेण हूस्वत्वम् । आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता सङ्गमः गाथा ५०५ २८२ *** kXX
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy