________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
१४
जातु स्युर्न वा । यदि स्युर्जघन्येनैको द्वौ त्रयो वा । उत्कृष्टतस्तु क्षेत्रपल्योपमासङ्घयेयभागप्रदेशराशिमानाः । क्षेत्रं मतिज्ञानिनां लोकस्यासङ्ख्येयभागः । एकस्य तु, इलिकागत्या सर्वार्थसिद्धौ गच्छत आगच्छतो वा सप्तचतुर्दशभागाः सप्तरज्जव इत्यर्थः । अधस्तु षष्ठ्ट्यां गच्छतः प्रत्यागच्छतश्च पञ्चसप्तभागाः । सप्तम्यां सम्यग्दृष्टेर्गत्यभावात् । स्पर्शना क्षेत्रादधिका, यथा परमाणोरेकप्रदेशं क्षेत्रं सप्तप्रदेशा स्पर्शना । कालो मत्युपयोगमाश्रित्य जघन्य उत्कृष्टश्च एकस्यानेकेषां चान्तर्मुहूर्त्तमात्रः । तल्लब्धिमाश्रित्यैकस्य जघन्येनान्तर्मुहूर्तमेव, उत्कृष्टतस्तु षट्षष्टिसागरोपमानि साधिकानि प्राग्वत् । नानाजीवापेक्षया तु सर्वः कालः, मतिज्ञानिनां सर्वकालेषु भावात् । अन्तरं एकस्य सम्यक्त्वं विमुच्य पुनर्गृह्णतो जघन्येनान्तर्मुहूर्तं उत्कर्षेणापार्द्धपुद्गलपरावर्त्तः । नानाजीवापेक्षया त्वन्तराभावः । भागद्वारे मतिज्ञानिनः *शेषज्ञानिनां अज्ञानिनां चानन्तभागे वर्त्तन्ते । भावे क्षायोपशमिके मतिज्ञानिनः । अल्पबहुत्वे मतिज्ञानिनः प्रतिपद्यमानकाः सर्वस्तोकाः, पूर्वप्रतिपन्ना जघन्येन तेभ्योऽसङ्ख्यगुणाः, उत्कर्षेण त्वेतेभ्योऽपि विशेषाधिका इति गाथात्रयार्थः ।। १३-१४ - १५ ।। मतिज्ञानोपसंहारं श्रुतज्ञानारम्भञ्चाह -
*********
आभिणिबोहियनाणे अट्ठावीसं हवंति पयडीओ । सुयनाणे पयडीओ वित्थरओ आवि वृच्छामि । । १६ ।।
स्पष्ट । ।। १६ ।। श्रुतप्रकृतीर्दर्शयन्नाह
-
आ. नि.
मङ्गलम् श्रुतज्ञानम् । गाथा - १६
१४