________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
१५
***************************
पत्तेयमक्खराई अक्खरसंजोग जत्तिया लोए । एवइया पयडीओ सुयनाणे हुंति नायव्वा ।।१७।। स्पष्टा । नवरं प्रत्येकं अक्षराणि यत्र यावन्तीति योज्यम् ।।१७।। एवं च श्रुतप्रकृत्यानन्त्याद्दुर्वचत्वमाह
कत्तो मे वत्रे सत्ती सुयनाणसव्वपयडीउ । चउदसविहनिक्खेवं सुयनाणे आवि वच्छामि ।। १८ ।। स्पष्टा । नवरं ‘श्रुतज्ञाने चापि' अपि शब्दादज्ञानविषयेऽपि ।। १८ ।। चतुर्दशविधश्रुतनिक्षेपमाह
अक्खर सन्नी सम्मं साईयं खलु सपज्जवसियं च । गमियं अंगपविट्ठ सत्तवि एए सपडिवक्खा ।।१९।।
स्पष्टा । केवलं 'अक्खरत्ति' श्रुतशब्दः सर्वत्र योज्यः । ततश्चाऽक्षरं अक्षरश्रुतादि 'गमियं' ति सदृशपाठम् । सप्ताप्येते भेदाः सप्रतिपक्षाःअनक्षरश्रुतादयः ।। १९ ।। अनक्षरश्रुतमाह -
ऊससियं नीससियं निच्छूढं खासियं च छीयं च । निस्सिंघियमणुसारं अणक्खरं छेलियाईयं ।।२०।।
स्पष्टा । नवरं ‘निच्छूढं' निष्ट्यूतम् । ‘अणुसारंति' सानुस्वारं मीलितमुखस्य 'हुं' इत्युच्चारणं अनक्षरश्रुतम् । 'छेलियाईयं' छेलियं-सेण्टितं चौरमिलनसंज्ञा, आदिशब्दाञ्चक्रचीत्कारादि ।।२०।। श्रुतलाभप्रकारमाह -
-
-
*************
********
आ. नि.
मङ्गलम्
श्रुतज्ञानम् । गाथा१७-२०
१५