________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
२६६
कूपनयकुम्भकारशालायां स्थितोऽस्ति । स च जिनकल्पप्रतिमां करोति । समये च गोशालेनोक्तं भिक्षावेलेति सिद्धार्थः स्माह उपोषिता वयम् । ततो गोशालो गतो भिक्षाम्, दृष्टास्ते श्रमणाः पृष्टा गोशालेन के यूयम् ? उक्तं निर्ग्रन्था वयम्, गोशालः स्माह नेदृशा निर्ग्रन्था भवन्ति, दाम्भिका यूयम्, मद्गुरुरेव निर्ग्रन्थः । तैरुक्तं यादृशस्त्वं पिशाचस्त्वद्गुरुरपि तादृशो भविष्यति । ततो गोशालः कुपितः शशाप । यदि मम गुरोरस्ति तपस्तेजस्ततो युष्मदुपाश्रयो दह्यतां, न दग्धः । तेन तदाऽऽगत्य प्रभोः कथितम् । सिद्धार्थेनोक्तं धार्मिकास्ते न दह्यन्ते । अथ रात्रौ मुनिचन्द्र उपाश्रयाद्वहिः प्रतिमया स्थितः 1 कूपनय कुम्भकारेण मद्यपानमत्तेन मध्यरात्रे बहिर्भागादाऽऽगच्छता दृष्ट्वा * मुनिचन्द्रस्थविरश्चौरोऽयमिति गले धृत्वा निरुच्छ्वासः कृतः । तथाऽप्यचलितध्यानस्य केवलज्ञानमुत्पन्नम् । तदैव पूर्णायुः शिवं गतः । * प्रत्यासन्नदेवाश्च महिमानं चक्रुः । देवमहिमोद्द्योतं दृष्ट्वा गोशाल: स्माह - प्रभो ! एतेषामुपाश्रयो दह्यते । सिद्धार्थः स्माह - न दह्यते । एतेषां * गुरुः शिवं गतः । तद्देवमहिमोद्द्योतोऽयम्, ततः स तत्र गत्वा तं वीक्ष्य हृष्टस्तानाह, अरे बोटिका ! गुरुं कालगतमपि न वित्थ, ततस्तैर्ज्ञातं सत्यपिशाच एवायं रात्रावपि हिण्डते । अथोत्थिता दृष्टो गुरुः । अधृतिं प्रपन्नाः । अथ प्रभुः सगोशालश्चौराकसन्निवेशं गतः । तत्र चारकाविति द्वावपि धृतौ । ततश्च प्रथमं गोशालोऽधोमुखो बद्ध्वाऽवटे क्षिप्यते आकृष्यते च न स्वामी । तत्र च सोमाजयन्तीनामिके उत्पलनैमित्तिकभगिन्यौ पार्श्वापत्यीये व्रतं कर्तुमक्षमे परिव्राजिकात्वं कुर्वाणे स्तः । ते तत्स्वरूपं श्रुत्वा आगत्य प्रभुं वीक्ष्य अमोचयताम् उपसर्गकारिणश्चाऽतर्जयतां ततस्तैर्भीतैः प्रभुः क्षमितः पूजितश्च ।।४७७ ।। ततः -
***********
******
आ.नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
गोशालः ।
गाथा- ४७७
२६६