________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
२६२
********
एको जिगाय युद्धेन सुदाढं भगवद्रिपुम् । गतायुषं नवोत्पन्नः शार्ङ्गव प्रतिशार्ङ्गिणम् ॥३२॥ द्वितीयस्तु प्रभोर्नावं निन्ये गङ्गानदीतटे । अवारोहत्प्रभुस्तीरे लोकः सर्वोऽपि चापरः । ३३ । महिमानं प्रभोस्तत्र तौ निर्माय सुरोत्तमौ । जग्मतुः श्रेष्ठिनः पार्श्वे कृतकृत्यौ जिनार्चनात् ॥ ३४ ॥ प्रणम्य श्रेष्ठिनं स्वस्य स्वरूपं स्वामिनस्तथा । तौ निवेद्येयतुः स्थानं निजं श्रेष्ठ्यनुमोदितौ ॥ ३५ ॥
महुराए इति गाथाशकलस्याक्षरार्थः । 'गोण उववासो' गावोरुपसमीपे वासोऽवस्थानम् । भण्डीरमणयक्षयात्रा 'अपत्ये' अपत्यकल्पौ वृषौ अभक्तमनशनं 'नागौ' कम्बलशम्बलौ । तयोरवधेर्ज्ञात्वा आगमनम् ।।४६९-४७०-४७१।। अथ प्रभुः क्वऽगादित्याह - थूणाए बहिं पूसो लक्खणमब्भितरं च देविंदो । रायगिह तंतुसाला मासक्खमणं च गोसालो ।।४७२ ।। मंखलि मंख सुभद्दा सरवण गोबहुलमेव गोसालो । विजयानंदसुनंदे भोयण खज्जे य कामगुणे ।।४७३ ।। गङ्गानदीतीरे प्रभु र्यापथिक प्रतिक्रम्य चलितः । चलतश्च प्रभोरीषच्छुष्ककर्दमे प्रतिबिम्बितानि चरणरेखारूपाणि बहिर्लक्षणानि चक्रवर्तिपदयोग्यानि पुष्पः सामुद्रिको ददर्श । प्रभुश्च स्थूणाकसन्निवेशं गतः सोऽप्यनुपदं तत्रागात् । एकाकिनं च प्रभुमालोक्य सामुद्रिकशास्त्राण्यप्रमाणानीति यावद्दध्यौ तावद्दिवः शक्रः समेत्य प्रभुं नत्वा पुष्पमाहन शास्त्राण्यप्रमाणानि एषोऽभ्यन्तरलक्षणो
*******
आ.नि. सामायिकनिर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
कम्बल
शम्बलौ ।
गाथा-४७२
४७३
२६२