________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
२६१
भण्डीरमणयात्रायां वाहकेलिकुतूहली । वयस्यो जिनदासस्य तौ निनाय परेद्यवि । २१ । वाहकेलीं ततस्ताभ्यां कृत्वा जयमवाप्य च । तदैवाऽऽनीय तत्रैव विमुच्य व्रजति स्म सः ॥ २२ ॥ चैत्यादथागतः श्रेष्ठी श्रान्तौ तौ वीक्ष्य दुःखितौ । धूलीघूसरसर्वाङ्गौ तोत्रतोदोत्थशोणितौ | २३ | ज्ञात्वा तयोर्मित्रकृतं दुःकृ[ष्कृ]तं तच्च तादृशम् । क्षालयित्वा तदङ्गानि वारि चारिमढौकयत् ॥ २४ ॥ तौ न चारिमचारिष्टामपातां वारि वा न च । तिर्यग्वैद्यमथाऽऽकार्याऽदर्शयत्तावुवाच सः ॥ २५ ॥ भद्र! भद्रो मृदू एतौ त्रुटितावतिखेटनात् । देहि पर्यन्तपाथेयमेतयोः ससितं पयः ॥ २६ ॥ तं विसृज्य तदानाय्य ढौकयामास तत्पुरः । पपतुस्तौ न तदपि ज्ञात्वा पर्यन्तमात्मनः । २७ । वृषावनशनेच्छौ तौ 'विदित्वाऽनशनं ददौ । पर्यन्ताराधनां श्रेष्ठी कारयामास चाऽऽखिलाम् ॥२८ । कृतात्मकृत्यौ कृत्यज्ञौ नमस्कारश्रुतौ रतौ । तौ विपद्योदपद्येतां देवौ नागकुमारकौ । २९ । यावज्जयजयारावं प्रारेभे तत्परिच्छदः । तावदासनकम्पेन ज्ञात्वा चावधियोगतः |३०| उपसर्ग सुदाढेन क्रियमाणं जिनेशितुः । आजग्मतुर्जवात्तौ द्वौ सुरौ शम्बलकम्बलौ ॥३१ ॥ ११. 'विदित्वा न ददौ पयः' ख ल । सितं चन्दनम्, तेनान्वितं ससितम् ।
**************
*****:
आ.नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
कम्बल
शम्बलौ ।
गाथा- ४७१
२६१