SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २६० निमन्त्रितो गोकुलिकेविवाहोपक्रमेऽथ तौ । ऊचतुः क्वापि नाऽयावो धर्मो बाध्येत नौ यतः ।१०। वस्त्राभरणकुप्यादिविवाहायोपकारि यत् । तथा कर्पूरकस्तुरीकुङ्कुमाद्यं च गृह्यताम् ।११। ते तदर्पितमादाय विवाहं व्यधुरद्भुतम् । मध्ये वैवाहिकं तेषां जज्ञे शोभातिशायिनी ।१२। विवाहातिक्रमे तेऽथ तदाऽऽनीयाऽर्ण्यमार्पयन् । हर्षोत्कर्षेण शाल्यादिभोजनौ द्वौ च गोवृषौ ।१३। आददे सर्वमप्यन्यनोवृषो नेषतुः पुनः । अनिच्छतोरपि तयोर्बद्ध्वा तो तत्र ते ययुः ।१४। दध्यो श्राद्धोऽथ मोक्ष्ये चेत्तल्लोको वाहयिष्यति । प्रासुकैश्चारिपानीयैस्तदासातामिहाप्यम् ।१५। अथ कर्मकरं चक्रे स तयोः प्रतिचारकम् । यथैतौ सुखमेधेते पुत्रकाविव वत्सको ।१६। । विधत्ते पुस्तकव्याख्यां सोऽभक्तार्थं च पर्वसु । तच्छ्रुत्वा भद्रको जातौ गावी तावपि संजिनो ।१७। न श्राद्धो यद्दिनेऽश्राति नाश्रीतस्तत्र तावपि । ततस्तो प्रति भावोऽभूद्यथा साधर्मिकाविमो ।१८। कम्बल: शम्बलश्चेति कृतोल्लापननामको । सञ्जाताभ्यधिकस्नेहस्तयोः सारां व्यधात् पराम् ।१९। अनन्यसदृशौ स्थाना धाम्ना तेजोमयाविव । हरोक्ष्ण इव मूर्ती वे अनापृच्छयैव गोवृषो ।२०। आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता कम्बल शम्बलौ। गाथा-४७१ २६० *१. 'गौकुलिकै' छ प प । . 'ई गतौ' धातोर्वर्तमाना 'वस्' प्रत्ययान्तम् । * हरस्य उक्षा = हरोक्षा, तस्य हरोक्ष्णः शङ्करस्य बलीवर्दः, तस्येव मूर्ती इत्यर्थः । *****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy