________________
Ek
आवश्यक- *वाशितम् । तत्र क्षेमलको नाम शाकुनिकः । तेनोक्तं मारणान्तिकी आपत्, परं देवार्यप्रभावाद्वलिष्यति । ततः प्रचलिता नौः । नियुक्तिः * अत्रान्तरे त्रिपृष्ठभवविदारितः सिंहजीव: संसारं परिभ्रम्य सुदाढनामा नागकुमारो जातः । स च नौस्थं प्रभुं दृष्ट्वा रुष्टः ।* श्रीतिलका- * प्राग्भववैरानुभावात् नावं वोलितुमारब्धः । तदा कम्बलशम्बलयोरासनं चलितं तयोश्चोत्पत्तिरियम् । 'महुराए' 'वीरवरस्स' * चार्यलघुवृत्तिः गाथाद्वयव्याख्या कथानकाज्ज्ञेया । सा चेयं - २५९ इहास्ति जम्बुद्वीपान्तर्भरतक्षेत्रमण्डनम् । नगरी मथुरा नाम यथाकामितकामधुक् ।१।
जिनदासो वणिक् तत्र श्रावकः परमार्हतः । अर्हद्धर्मः सदा यस्य मानसे राजहंसति ।२। जिनदासी प्रिया तस्य प्रियङ्करणदर्शना । धर्मे रङ्गः स कोऽप्यस्या न यो भुजभृतामपि ।३। एकान्तरदिनोपात्तैकान्तरब्रह्मचारिणौ । कुमारत्वेऽप्यभूतां तौ गुरूणामुपदेशतः ।४। दैवयोगात्तयोरेवाभवत्पाणिग्रहस्ततः । व्रतभङ्गभयाजातौ तौ नित्यब्रह्मचारिणी ।५। तौ त्यक्ताऽऽरम्भसंरम्भौ प्रत्याख्यातचतुष्पदौ । कलान्तरार्जितद्रव्यौ धर्मकर्मककर्मठौ ।६। धान्यः प्रतिदिनाऽऽनीतैः कर्मकृत्प्रगुणीकृतेः । गोरसैर्गोकुलायातः प्रत्यहं कृतभोजनो ।७। त्रिसन्ध्यं कृतदेवा! गुरुव्याख्यारसोर्जितौ । सायं प्रातः प्रतिक्रान्तिकारिणौ प्रतिवासरम् ।८। (चतुर्भिः कलापकम् ) तदानीं जिनदास्याश्च गोकुलिन्याश्च चेतसोः । उपप्रयागं मेलोऽभूत् गङ्गायमुनयोरिव ।९।
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता कम्बलशम्बलौ। गाथा-४७१
準準準準準準準準準準準準準準華
**********
२५९