________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
२५२
*****************
महिमा क्रियते लोकैस्तत्राऽत्यादरपूर्वकम् । इहाप्यच्छन्दको ज्ञाताऽस्तीति कैरप्युदीरितम् ॥६९ । सिद्धार्थ: स्माह नो वेत्ति किञ्चनाऽसौ प्रतारकः । लोकस्तं स्माह वेत्ताऽसि न त्वं देवार्य एव वित् ॥७०॥ स स्वं स्थापयितुं तेषां मध्ये तानाह्वयद्यथा । ज्ञानं परीक्ष्यते तस्य सोऽथागात्तत्र तद्वृतः । ७१ । स्वामिन: पुरतः स्थित्वा गृहीत्वा तृणमूचिवान् । छेत्स्यतेऽदस्तृणं नो वा दध्यावन्तः स दुष्टधीः । ७२ । कार्यं प्रतीपमस्योक्तं येनाऽसौ स्यादऽसत्यगीः । सिद्धार्थो जल्पति स्मेतत्तृणं न छेत्स्यतेऽधुना ॥७३॥ स यावच्छेत्तुमारेभे तत्तृणं सज्जिताङ्गुलिः । शक्रस्तदवधेर्ज्ञात्वा वज्रं प्रक्षिप्य तत् क्षणात् ॥७४॥ अच्छन्दकस्य चिच्छेद दशापि हि कराङ्गलीः । तृणाऽछेदाद्विलक्षोऽगान्निन्द्यमानोऽखिलैर्जनैः ॥७५॥ अमुमेवार्थमाह -
रुद्दाय सत्त वेयण थुइ दस सुमिणुप्पलऽद्धमासे य । मोराए सक्कारं सक्को अच्छंदए कुविओ ।।४६४ ।। उक्तार्था । एषा निर्युक्तिगाथा ।। ४६४ ।। मूलभाष्यगाथाश्चैताः -
भा. भीमट्टहास हत्थी पिसाय नागे य वेयणा सत्त । सिरकन्ननासदंते नहऽच्छि पिट्ठी य सत्तमिया । । ११२ । ।
****
आ.नि.
सामायिक
निर्युक्तिः निर्गमद्वारे
श्रीवीर
वक्तव्यता अच्छन्दकः ।
* गाथा- ४६४
भा. गाथा
११२
२५२
*****