SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ **** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २५० ततस्तत्राऽऽगात्सिद्धार्थः शूलपाणिमदोऽवदत् । आ पाप ! किं त्वया चक्रे तीर्थेशं वेत्स्यमुं न किम् ।४५। इदं चेज्ज्ञास्यते शक्रस्तदा त्वं क्व भविष्यसि । शूलपाणिस्ततो भीतः पुनरक्षमयत्प्रभुम् ।४६। सिद्धार्थः प्रतिबोध्याऽथ तं सम्यक्त्वमजिग्रहत् । अत्याजयजीवहिंसां प्राग् दुःकृष्कृतान्यनिन्दयत् ।४७। धर्मावाप्तिमुदा पुष्पवृष्ट्याद्यं प्रेक्षणं व्यधात् । दध्यो लोकः प्रभुं हत्वा स्वैरं क्रीडत्यसौ सुरः ।४८। तदा तदुपसर्गाणां श्रमानिद्रा क्षणं प्रभोः । अभूददर्श च स्वप्नानूर्ध्व एव दश प्रभुः ।४९। वर्द्धिष्णुस्तालपिशाचो लीलयैव हतः स्वयम् । कोकिलो श्वेतचित्रौ च सेवकाविव पार्श्वगौ ।५०। सुगन्धिदामयुग्मं च गोवर्गः सेवनोद्यतः । स्मेरपा पद्यसरो दोभ्या॑ तीर्णश्च सागरः ॥५१॥ उद्रश्मिकं चार्कबिम्बं मानुषोत्तरपर्वतः । निजान्नैवेष्टितो विष्वक् स्वमारूढं च मन्दरे ।५२। एवं वीक्ष्य दशस्वप्नान् जजागार जगत्प्रभुः । प्रगेऽथाऽगाजन: सर्व इन्द्रशर्मोत्पलावपि ।५३। अक्षताङ्गं प्रभुं पुष्पवृष्टिं चाऽऽलोक्य विस्मिताः । सिंहनादं विमुञ्चन्तः प्रणेमुः प्रीतचेतसः ।५४। ऊचुश्च स्वामिना यक्षः शमितो महनां व्यधात् । निमित्तादुत्पलो ज्ञात्वा नत्वा प्रभुमवोचत ।५५। निशान्तेऽद्य दशस्वप्नाः स्वामिन् ! युष्माभिरीक्षिताः । जानतामपि वस्तेषां फलं वच्मि किमप्यहम् ।५६। आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता शूलपाणिप्रतिबोधः। गाथा-४६३ २५० KENNN
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy