________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२४७
ग्राम्या विभज्य तद्रव्यं सर्वे जगृहिरे स्वयम् । तस्याऽसौ निर्दयो ग्रामश्चारिं वारि न कोऽप्यदात् ।१७। आस्तां किञ्चित्करिष्यन्ति दयया मे प्रतिक्रियाम् । स्वामिदत्तद्रव्येणाप्येते किञ्चिन्न कुर्वते ।१८। तत: प्रद्वेषमापनस्तद्ग्रामोपरि शक्करः । सोऽकामनिर्जरायोगात् क्षुत्तृषा बाधितो मृतः ।१९। यक्षोऽभूत् शूलपाण्याख्यो ग्रामेऽत्रैव पुरो बने । उपयुक्तोऽथ सोऽज्ञासीत्तद्वपुः स्वं ददर्श च ।२०। मारिं तद्ग्रामलोकस्य स विचक्रे ततः क्रुधा । तल्लोको मर्तुमारेभेऽभुवंस्तैरस्थिसञ्चयाः ।२१। कारितैरपि रक्षाद्यैर्मारिनोपशशाम सा । नामान्तरेष्वगुर्लोकाः स तांस्तत्राप्यमारयत् ।२२। अचिन्तयंस्ते तत्रस्थैः कोऽप्यस्माभिर्विराधितः । यामस्तत्रैव तद्ग्रामे तत्प्रसादनहेतवे ।२३। अथागतास्तदर्थं ते प्रचक्रुर्विपुलं बलिम् । समन्ततः क्षिपन्तोऽथ ग्रामस्याभ्यधुरुन्मुखाः ।२४ । देवो वा दानवो वाऽपि यः कश्चित्कुपितोऽस्ति नः । शरणं नः स एवाऽस्तु क्षाम्यत्वागः प्रसीदतु ।२५ । यक्षोऽन्तरिक्षे सोऽवादीत् क्षामणां कुरुताऽधुना । वणिग्दत्तधनेनाऽपि तदा गोर्न तृणाद्यदुः ।२६ । बलिवर्दः स मृत्वाऽहं शूलपाणिः सुरोऽभवम् । तेन वैरेण वः सर्वान्मारयामि ततोऽधुना ।२७।
華米米米米米米米米講講講講米米米米米準準準準準準準準準準
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता शूलपाणिप्रतिबोधः। गाथा-४६१
२४७
. शक्करः-वृषः ।