________________
KX
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे
२४०
श्रीवीर
準準準準準準準準準準準羊羊業举業
कुण्डग्रामस्य देवावासानां चान्तरालं देवैश्च देवीभिश्च सञ्चरद्भिः सदा ‘अविरहितं' विरहरहितं सञ्जातमित्यर्थः । ततः किमित्याह - भा. चंदप्पहा य सीया उवणीया जम्ममरणमुक्कस्स । आसत्तमल्लदामा जलयथलयदिव्वकुसुमेहिं ।।१२।।
देवैश्चन्द्रप्रभा शिबिका उपनीता जन्मजरामरणमुक्ताय श्रीवीराय । किं विशिष्टा ? पौष्पं शिरोलङ्कारि माल्यं वक्षस्थलालङ्कारि दामं * *आसक्तानि अवलम्बितानि माल्यदामानि यस्यां सा तथा । कैः कृतानि माल्यदामानि ? जलजस्थलजदिव्यकुसुमैः । शिबिकाप्रमाणमाह -
भा. पन्नासं आयामा धणूणि विच्छिन्न पन्नवीसं तु । छत्तीसं उविद्धा सीया चंदप्पहा भणिया ।।१३।। भा. सीयाइ मज्झयारे दिव्वं मणिकणगरयणचिंचइयं । सींहासणं महरिहं सपायपीढं जिणवरस्स ।।१४।। मणयश्चन्द्रकान्ताद्याः, रत्नानि मरकतादीनि 'चिंचइयं' खचितम् । महतो जिनेन्द्रस्य अहं योग्यं महार्हम् । भा. अवलइयमालमउडो भासुरबुंदी पलंबवणमालो । सेअयवत्थनियत्थो जस्स य मुल्लं सयसहस्सं ।।१५।। भा. छद्रुणं भत्तेणं अज्झवसाणेण सोहणेण जिणो । लेसाहिं विसुझंतो आरुहई उत्तमं सीयं ॥१६॥
अवलगितौ निवेशितौ मालामुकुटौ यस्य स तथा 'भासुरबुंदी' भासुरतनुः, प्रलम्बा वनमाला देवाभरणं यस्य स तथा ।* * सेअयवत्थनियत्थो' प्राकृतत्वात् शब्दव्यत्ययः, निवसितश्वेतवस्त्रः, यस्य मूल्यं 'शतसहस्रं' लक्षम् । अध्यवसानेन मनःपरिणामेन *
वक्तव्यता निष्क्रमणम्। गाथा-४६० भा. गाथा९२-९६
२४०
*
*