SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २२५ स्थास्यतीयश्चिरं कोऽत्र त्रिपृष्ठः स्माह तान् प्रति । दर्श्यतां मम सिंहः स येनैकोऽपि निहन्मि तम् ॥३२॥ तुङ्गाचलगुहायां तैर्दर्शितः केसरी ततः । रथारूढी कुमारी तावयासिष्टामुभौ गुहाम् ।३३। तां गुहामभितो लोकाश्चक्रुः कलकलारवम् । तं च पञ्चाननः श्रुत्वाऽभ्यागाज्जम्भापराननः ।३४। अहं रथी पत्तिरसौ युक्तो नौ नैष सङ्गरः । रथात् ततोऽवततार त्रिपृष्ठः फलकासिभृत् ।३५। फलकासी मम करे एष दाढानखायुधः । तदप्यनुचितं भाति तत्तावपि मुमोच सः ।३६ । दध्यो तं प्रेक्ष्य सिंहोऽथ धाष्टादेको यदागमत् । यद्यानशस्त्रमुक्तिश्चाऽहंयुर्हन्मि तदेणवत् ।३७। विचिन्त्यैवं महाकोपादऽजानानो हरिं हरिः । दत्वा फालां करालां स त्रिपृष्ठोपान्तमापतत् ।३८ । एककेन करेणीष्ठाधरो धृत्वा हरिं हरिः । पाटयामास तं जीर्णपट्टांशुकमिव क्षणात् ।३९। पुष्पाभरणवस्त्रैश्च वृष्टं देवतया हरौ । शौर्येण विस्मितैलॊकैस्तुष्टुवे स स्फुटन्मुखैः ।४०। एकाकिना मारितोऽहमिति सिंहः स्फुरंस्तदा । गौतमजीवस्तत्सतस्तमूचे मा स्म खिद्यथाः ॥४१॥ पशुसिंहो नृसिंहेन मारितोऽसीति का व्यथा । प्रीतस्तद्वचसा मृत्वा तुर्यो| नारकोऽभवत् ।४२। आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता त्रिपृष्ठभवः । गाथा-४४७ २२५ * १. 'जीवस्ततोस्य' - ख ल प प जीवसूतोऽस्य - छ प । तदेणवत् - तद् - तस्मात्, एणः मृगविशेषः तमिव हन्मि इत्यर्थः । * सूतः सारथिः । K*****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy