SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका ****** चार्यलघुवृत्तिः * २२४ *************** अश्वग्रीवस्य दूतोऽयं राजराजस्य दुर्मदः । गच्छन्नयं निवेद्यो नाविति तावूचतुर्निजान् ॥ २२ ॥ प्रजापतिस्तन्मन्येद्युर्व्यसृजत्कृतगौरवम् । स्वभटैर्ज्ञापितौ तौ च कुमारावन्वधावताम् ॥२३॥ तमर्धमार्गे प्राप्य स्वहस्तयोश्चक्रतुः सुखम् । काकवल्लगुडापाते तत्सहायैश्च शिरे ॥ २४ ॥ ज्ञात्वा प्रजापतिस्तच दूतमानीय तं गृहे । सत्कृत्योचे दुर्विनयं माऽऽख्यः कौमारमीशितुः ॥ २५ ॥ आमेत्युक्त्वा ययौ दूतः क्ष्मापतेः परमग्रतः । पलाय्य यातैः कथितं सर्वं दूतस्य धर्षणम् ॥ २६ ॥ तहूतोऽपि तथैवाख्यदलीकान्मा कुपनृपः । अश्वग्रीवोऽनुशिष्याऽन्यं दूतं प्रेषीत्प्रजापतेः ॥२७॥ गत्वाचे रक्ष शालींस्त्वं सिंहाद्राजाज्ञयेष सः । राजोवाच सुतावेतत्फलं दूतखलीकृतेः ॥ २८ ॥ अवारकेपि यदभूदाऽऽदेश: शालिरक्षणे । इत्युक्त्वा प्रस्थितं भूपं प्रतिबोध्य गतौ सुतौ ॥ २९ ॥ कियत्कालं कथं सिंहमन्येऽरक्षनृपा इति । त्रिपृष्ठपृष्टैः शिष्टं तैः शालीनां परिचारकैः ॥ ३० ॥ पत्त्यश्वेभरथैर्वप्रं कृत्वाऽरक्षन् क्षितीश्वराः । कर्षणग्रहणं यावदागतावारकक्रमात् ॥ ३१ ॥ 'कर्षण' ल • नश् धातुः अकर्मकः परस्मैपदी च तस्य आत्मनेपदबहुवचनप्रयोगः सम्यग् न भाति । यदि कर्मणि वाक्यं तदा भावप्रयोगे एकवचनमेव सम्यग्, यदि च कर्त्तरि वाक्यं तदा आत्मनेपद: कथम् ? ************* आ.नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीवीर वक्तव्यता त्रिपृष्ठभवः । गाथा- ४४७ २२४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy