SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २२३ अग्रे च तत्पितुलॊकौलं नाम व्यलोप्यत । स्वप्रजायाः पतित्वेन प्रजापतिरितीरितम् ।११। विश्वभूतिच्युतः शुक्रान्मृगावत्या अथोदरे । कथितः सप्तभिः स्वप्नैर्विष्णुरित्यवतीर्णवान् ।१२। पूर्णेष्वहःसु सञ्जज्ञे तनुभूविष्णुरादिमः । त्रिकरण्डकपृष्ठत्वात्त्रिपृष्ठ इति संज्ञितः ।१३। अशीतिघनुरुच्चाङ्गः खेलन् भ्रात्रा बलेन सः । द्विसप्ततिकलाभिज्ञः क्रमाद्यौवनमाऽऽसदत् ।१४। विशाखनन्दिजीवश्च भवं भ्रान्त्वाऽथ केसरी । जज्ञे तुङ्गगिरौ शङ्खपुरदेशनिसूदकः ।१५ । प्रतिविष्णुः पृच्छति स्माश्वग्रीवो मे कुतो मृतिः । भाविनीति निमित्तज्ञं सोऽप्याचख्याविदं तदा ।१६ । ततस्ते भीश्चण्डवेगं यो दूतं धर्षयिष्यति । यस्तुङ्गगिरिसिंहं च हेलयैव हनिष्यति ।१७। ततः शङ्खपुरे शालीनश्वग्रीवोऽध्यवापयत् । वारकेण महीपालान् तत् त्राणार्थमथादिशत् ।१८। राज्ञः प्रजापते: पुत्रौ स शुश्राव महौजसौ । कुतोऽप्यर्थाशण्डवेगं दूतं तस्मै प्रयुक्तवान् ।१९। तदा प्रजापतेरग्रे सङ्गीते रङ्गमागते । अकस्मादागतश्चण्डवेगस्तद्रङ्गभङ्गदः ।२०। अभ्युत्तस्थे भूभुजाऽसौ तदीयस्वामिशङ्कया । मन्त्री पृष्टः कुमाराभ्यामहंयुः कोऽयमाह सः ।२१। आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता त्रिपृष्ठभवः। गाथा-४४७ * * * २२३ * १. 'दृप्तस्ते' प. प. प. ख छ ल ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy