________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
२२०
************
उद्वृत्तः पुरुषसिंहः सामन्तस्तज्जयाय तत् । यास्यामीति सभामध्ये मायया चाऽवदन्नृपः ।६। तच श्रुत्वा विश्वभूतिरृजुरेत्य वनात्ततः । भक्त्या निवार्य राजानं प्रयाणमकरोत्स्वयम् ॥७॥ गतश्च पुरुषसिंहं दृष्ट्वा ज्ञात्वा वशवर्त्तिनम् । ववले तत्र च ययौ पुनः पुष्पकरण्डके १८ । विशाखनन्दी मध्येऽस्तीत्युक्तो द्वास्थेन तत्र सः । अचिन्तयन्माययाऽहं कृष्टः पुष्पकरण्डकात् ।९। क्रुद्धः कपित्थं मुष्ट्याऽहंस्तत्फलैः पतितैर्भुवम् । छादितां दर्शयन् सोऽथ जगाद द्वारपालकम् ॥१०॥ पातयामि शिरांस्येवं सर्वेषां भवतामपि । ज्यायसि ज्यायसी ताते न चेद्भक्तिर्भवेन्मम ॥११॥ भोगैरीदृग्वञ्चनाप्तैर्ममाऽलमिति स ब्रुवन् । सम्भूतमुनिपादान्ते गत्वा व्रतमुपाददे ।१२ ।
O
तं च प्रव्रजितं श्रुत्वा राजा सावरजोऽप्यगात् । नत्वा च क्षमयित्वा च राज्यायाऽर्थयते स्म च ॥ १३ ॥ विश्वभूतिमनिच्छन्तं ज्ञात्वा भूपोऽगमद्गृहम् । ततो व्यहार्षीदन्यत्र स पुनर्गुरुणा सह ॥१४ ॥ स गुर्वनुज्ञयैकाकिविहारेण तपः कृशः । विहरनेकदाऽगच्छन्नगरीं मथुराभिधाम् ॥१५ ॥
• उद्वृत्तः दुराचारी * ज्यायस्वृद्धः तस्मिन् (तातस्य विशेषणं) । ज्यायसी अतिशया (भक्तेर्विशेषणं) । अवरजेन सह सावरजः ।
|
****************
******
आ. नि. सामायिकनिर्युक्तिः निर्गमद्वारे
श्रीवीर
विश्वभूति
भवः । गाथा ४४४
२२०