SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः २१९ ************** संसरिय थावरो रायगिहे चुत्तीसं बंभलोगकप्पंमि । छस्सुवि पारिवज्जं भमिओ तत्तो य संसारे ||४४३॥ माहेन्द्राच्युतः संसृत्य कियन्तमपि कालं संसारे, राजगृहे स्थावरो ब्राह्मणः, चतुस्त्रिंशत्पूर्वलक्षायुः परिव्राट् भूत्वा ब्रह्मलोके देवोऽभूत् एवं मरीचिजीवः षट्स्वपि वारासु परिव्राट् भूत्वा दिवमाप्तवान् । 'भमिओ तत्तो य संसारे' ततश्युत्वा प्रभूतं कालं संसारे भ्रान्तः । । ४४३ ।। ततः किमित्याह रायगह विस्सनंदी विसाहभूई य तस्स जुवराया । जुवरन्नो विस्सभूई विसाहनंदी य इयरस्स ।। ४४४।। अत्र कथा - राजा राजगृहे विश्वनन्दी विश्वाभिनन्दनः । पत्न्यां प्रियङ्गौ विशाखनन्दी तस्य सुतोऽभवत् ॥१॥ विशाखभूतिर्युवराडनुजो धारिणी प्रिया । मरीचिजीवः तस्याऽभूद्विश्वभूत्याख्यया सुतः ॥ २ । युवावस्थो विश्वभूतिर्वने पुष्पकरण्डके । रेमे सान्तः पुरो देवकुमार इव नन्दने ॥३॥ विशाखनन्दी क्रीडार्थी राट्सुतोऽस्थात् तु तद्बहिः । पुष्पाद्यर्थं गता दास्यो ददृशुस्तौ यथास्थितौ ।४ । ताभ्यो ज्ञात्वा प्रियङ्गस्तत्कोपौकः कुपिताऽविशत् । तदीप्सितार्थे राजाऽपि यात्राभेरीमवादयत् ॥५ । 1 ****** आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे मरीचिवक्त व्यता । गाथा-४४३४४४ २१९
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy