________________
२१६
आवश्यक- निःश्रीकमथ निक्षूनाम्भोजं सर इवाऽखिलम् । पश्यन् स्वाङ्गं विरङ्गोऽभूदङ्गनास्वपि तन्मतिः ।६। नियुक्तिः एवं च ध्यायतस्तस्य शुक्लध्यानमजायत । उत्पेदे केवलज्ञानं गृहिवेषभृतोऽपि हि ७। श्रीतिलका- * ऊचे शक्रस्तदैवैत्य द्रव्यलिङ्गं प्रपद्यताम् । भरतेन ततो लोचः प्रचक्रे पञ्चमुष्टिकः ।८। चार्यलघुवृत्तिः *
पतद्ग्रहरजोहत्याधुपधिं देवताऽऽनयत् । प्रवव्राज महाराजः सहस्रर्दशभिः सह ।९। नि:क्राष्क्रिान्ताश्चक्रिणोऽन्ये च सहस्रकपरिच्छदाः । महिमानं विधायाऽथ शक्रो राजर्षिमानमत् ।१०। स्थित्वा केवलिपर्याये पूर्वलक्षं स निर्वृतः । चक्रेऽष्टौ पुरुषयुगान्येषां शक्रोऽभिषेचनम् ।११। ।।४३६।। प्रस्तुतां मरीचिवक्तव्यतामाह - पुच्छंताण कहेइ उवट्ठिए देइ साहुणो सीसे । गेलने पडियरणं कविला इत्थंपि इहयंपि ।।४३७।।
स मरीचिर्भगवति निर्वृते साधुभिः सह विहरन् पृच्छतां लोकानां जिनोक्तमेव धर्म कथयति । व्रतार्थमुपस्थितान् शिष्यान् साधुभ्यो * * ददाति । अन्यदा मरीचेानत्वे साधुभिरसंयतत्वात् तस्याऽप्रतिजागरणम् । ततः प्रतिजागरकः कोऽपि कार्य इति चिन्ता । पाटवे सति *
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे भरतकेवलप्राप्तिः । गाथा-४३७
२१६
*. तन्मतिः - तस्मिन्नेव निःश्रीकस्वाङ्गे मतिरस्य तन्मतिः, भरतस्य विशेषणम् । * अन्ये -अन्ये नव चक्रिणः (ब्रह्मदत्तसुभूमौ विहाय) 1+'अष्टौ पुरुषयुगानि एषां' इति सन्धिः, *
भरतपरम्परायां अष्टौ पुरुषाः शक्रेण राज्येऽभिषिक्ताः, इत्यर्थः ।