________________
आवश्यक- नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२१५
स्वगृहेष्वतिष्ठिपन् । ततस्ते आहिताग्नयो जाताः । चितात्रयाग्निग्रहणादग्नेस्त्रिसङ्घयत्वम् ।।४३५॥ अमुमर्थं भाष्यकरोऽप्याह -
भा. थूभसय भाउगाणं चउवीसं चेव जिणहरे कासी । सव्वजिणाणं पडिमा वत्रपमाणेहिं नियएहिं ।।४५।। उक्तार्था । अथ भरतवक्तव्यतामाह - आयंसघरपवेसो भरहे पडणं च अंगुलीयस्स । सेसाणं उम्मुयणं संवेगो नाण दिक्खा य ।।४३६।। द्वारम् । अस्या भावार्थ: कथातो ज्ञेयः - निर्वाणं स्वामिनि प्राप्ते चैत्ये तत्र च कारिते । जगाम भरतोऽयोध्यामल्पशोकः क्रमादभूत् ।। भोगान् भोक्तुं पुनरपि प्रावृतद्धव ईदृशः । तस्य चैवं पञ्चपूर्वलक्षी याता मुहूर्त्तवत् ।२। अथाऽन्यदाऽगमञ्चक्री सर्वालङ्कारभूषितः । द्रष्टुं स्वं दर्पणागारं यत्राङ्गं वीक्ष्यतेऽखिलम् ।। तत्र स्वं पश्यतो राज्ञः पपाताङ्गुलिमुद्रिका । न सा ज्ञाताऽथ निःशोभामङ्गली वीक्ष्य दध्यिवान् ।४। भूषणैरेव शोभेयं सहजा नेति चिन्तया । एकैकं भूषणं मुञ्चन् सर्वाण्यपि मुमोच स: ।५।
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे भरतकेवल प्राप्तिः । गाथा-४३६ भा. गाथा-४५
२१५
भवः - संसारः ।