SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः *********** २१३ अपश्यन् किञ्चिदप्यन्यदशृण्वन् कस्यचिद् वचः । ध्यायन् स्वामिनमेवैकं स गच्छन्मनसा समम् ।४। अध्यारुरोह वेगेन प्राप्याष्टापदपर्वतम् । पश्यति स्म प्रभुं तत्र पर्यङ्कासनसंस्थितम् ।५। (चतुर्भिः कलापकम्) शोकहर्षरसाक्रान्तस्वान्तो बाष्पायितेक्षणः । वन्दित्वाऽस्थात्प्रभोः पार्श्वे प्राञ्जलिर्भरताधिपः ।६। तं ज्ञात्वाष्टापदं शैलमिन्द्रा अपि समाययुः । तदा च देवदेवीभिर्जज्ञे व्योमाऽपि सङ्कटम् ।७। आ. नि. निर्वाणस्वरूपमाह - सामायिक नियुक्तिः निव्वाणं चिइगागिई जिणस्स इक्खाग सेसयाणं च । सकहा थूभ जिणघरे जायग तेणाऽहिअग्गित्ति ।।४३५।। * निर्गमद्वारे भगवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः । * श्रीऋषभस्वामिप्रभोरात्यन्तिके सौख्ये तदा जातेऽभवत्सुखम् । अदृष्टसुखलेशानां नारकाणामपि क्षणम् ।८। निर्वाणम् । चक्रवर्ती तु तत्कालं कीलित: शोकशङ्कना । व्यपेतचेतन इव न स्पन्दनमपि व्यधात् ।। गाथा-४३५ शोकशङ्ख समाक्रष्टुं शक्रश्चक्रेऽथ चक्रिणः । पूत्कारपूर्वकं तत्राक्रन्दं सन्दशकोपमम् ।१०। तच्छ्रुत्वा सोऽपि चक्रन्द ब्रह्माण्डं स्फोटयन्निव । विललाप च दुःखार्त्तस्तिरश्चोऽपि हि दुःखयन् ।११। २१३ अथ तं बोधयामास शक्रः शोकापनोदवित् । लोकोऽपीष्टवियोगेऽथ शोकातॊ रोदनं व्यधात् ।१२। 樂華举業举準準準準準準準準準
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy