________________
EX***
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१८५
[繁紧紧紧紧紧紧紧紧紧
कोऽपि प्रथमया बुद्धः कश्चनापि द्वितीयया । बुद्धाः सर्वेऽपि सर्वाभिः कुमाराः प्राव्रजस्तदा ।।११०।। अमुमेवार्थमाह - मागहवरदामपभास सिंधुखंडप्पवायतिमसगुहा । सटुिंवाससहस्सा ओवइयं आगओ भरहो ।।१।। [प्र./ मागहमाई विजओ सुंदरिपव्वज बारसऽभिसेओ । आणवण भाउगाणं समोसरणे पुच्छ दिद्रुतो ।।३४८।। उक्तार्था पुनः कथा - ज्ञात्वा दूतेभ्यस्तद्वृत्तं भरतो भरताधिभूः । तेजांसीवांशुरग्नीनां तेषां राज्यान्यपाहरत् ।।१११।। विज्ञाय लघुबन्धूनां तद्राज्यहरणं तदा । आयातं भारतं दूतमूचे बाहुबली बली ।।११२।। अरे तृप्तिन ते भर्तुर्वृहत्कुक्षिरिवेषकः । बन्धूनामऽपि राज्यान्याच्छिनत्ति स्माऽतिलोभतः ।।११३।। मदीयमपि किं तद्वद्राज्यमेष जिहीर्षति । मरिचान्यप्यधीर्वाञ्छत्यत्तुं चणकलीलया ।।११४ ।। आयातोऽहं तदेषोऽस्मि सजय स्वं प्रभुं युधे । इत्युक्त्वा दूतमुत्सृज्य बाहुबल्यभ्यषेणयत् ।।११५ ।।
है.
業業樂業蓬準準準準準準羊羊藥華藥
आ. नि. सामायिकनियुक्तिः
निर्गमद्वारे * श्रीऋषभस्वामि
वक्त. भरतबाहुबलियुद्धम् । गाथा-३४८ १८५
*. प्रक्षिप्ता - अन्यकर्तृकीय गाथा । * ओवइयं-साधयित्वा ।