SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १८६ 華藥華藥業樂業準準準 ज्ञात्वाऽऽयान्तं भरतोऽपि सर्वोघेण तमभ्यगात् । ततस्तद्बलयोरासीत्सङ्ग्रामो द्वादशाब्दकः ।।११६ ।। अथ बाहुबलिः स्माह किमेतैः कीटकुट्टनैः । आवयोरेव यद्वरमावयोरेव तद्रणः ।।११७।। अथाङ्गाङ्गिरणे देवप्रार्थनात्स्वीकृते शुभे । दृग्युद्धं प्रथमं चक्रे भरतस्तत्र निर्जितः ।।११८।। एवं वाग्युन्मुष्टामुष्टिदण्डादण्डिरणैर्जितः । भरतोऽचिन्तयश्चक्री एष एवाऽस्म्यहं न किम् ।।११९ ।। । तस्यैवं खिन्नचित्तस्य चक्रं देवतयाऽर्पितम् । सगर्वस्तेन सोऽधावत् हन्तुं बाहुबलिं प्रति ।।१२०।। तमायान्तं समालोक्याऽचिन्तयद्वाहुबल्यपि । एतं सचक्रमप्येकमुष्टिघातेन चूर्णये ।।१२१।। किं पुनः कामभोगानां तुच्छानां कारणे मम । भ्रातुर्धष्टप्रतिज्ञस्य वधः कर्तुं न युज्यते ।।१२२ ।। भव्यं मे भ्रातृभिश्चक्रे तत्करोम्यहमप्यतः । अथोचेऽधमयुद्धेच्छोर्धिक्ते भरत ! पौरुषम् ।।१२३ ।। अलं भोगैर्ममेत्युक्त्वा तदेव व्रतमाददे । भरतस्तनयं बाहो राज्ये सोमप्रभं न्यधात् ।।१२४ ।। अग्रे केवलिनः सन्ति तातोपान्ते ममाऽनुजाः । ततोऽहमपि यास्यामि सञ्जाते तत्र केवले ।।१२५ ।। तत्रैवाऽस्थात्प्रतिमयेत्युपलस्तम्भनिश्चलः । पादयोर्जातवल्मीको लतापहृतविग्रहः ।।१२६ ।। वत्सरान्ते बोधकालं ज्ञात्वा ब्राह्मी च सुन्दरी । स्वामिना प्रेषिते गत्वा दृष्ट्वा तं वल्लिवेष्टितम् ।।१२७ ।। आ. नि. सामायिकनियुक्तिः निर्गमद्वारे * श्रीऋषभस्वामि वक्त. भरतबाहुबलियुद्धम् । गाथा-३४८ १८६ .
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy