SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आवश्यक- यूयं व्रजत हे दूता ! वयं त्वत्स्वामिना सह । तातं पृष्ट्वा करिष्यामः सख्यं वाऽसख्यमेव वा ।।१९।। नियुक्तिः ततस्तेऽष्टापदे गत्वा प्रभुं नत्वाऽवदत्रदः । राज्यं तात ! त्वया दत्तं भ्राता हरति तद्वयम् ।।१०।। श्रीतिलका- युध्यामहे किमथवा तदाज्ञामनुमन्महे । धर्म तेषामथार्योऽवक भोगेभ्यस्तानिवर्तयत् ।।१०१।। चार्यलघुवृत्तिः * 'निश्रेयससमं सौख्यं संसारे क्वापि नास्त्यहो । अङ्गारदाहकस्याऽत्र दृष्टान्तं शृणुताऽधुना ।।१०२।। १८४ इहैकोऽङ्गारकृद्यातो गृहीत्वाम्भोघटं वने । पीतं तेनाम्बु तत्सर्वं तृष्णयाऽऽर्तेन कुम्भतः ।।१०३।। उपर्यादित्यतापेन पार्श्वेऽग्नेचलनात्तथा । काष्ठकुट्टनखेदाच पीडितस्तृष्णया पुनः ।।१०४ ।। सोऽथ गाढं गतो मूर्छा सुप्तः स्वप्ने तदा जलम् । सर्वगेहसर:कूपनदीहदसमुद्रजम् ।।१०५।। सर्व पपो परं तस्य तृष्णा छिन्ना तथाऽपि न । ततो मरौ जीर्णकूपे गृहीत्वा तृणपूलकम् ।।१०६ ।। तेनाहतं पयः शेषं पतिताल्लेढि जिह्वया । न छिन्ना या समुद्रान्तः सा तृट् छेत्स्यति तेन किम् ।।१०७।। 'अन्वभूवन् भवन्तोऽपि सुखं भवसुखावधि । विमाने सर्वार्थसिद्धे तृप्तिस्तदपि नाऽभवत् ।।१०८।। ततो वैतालिकं नामाऽध्ययनं स्वाम्यभाषत । युद्धयध्वं किं न बुद्ध्यध्वमित्यष्टानवतिर्बुवाः ।।१०९।। *१. सुखोघान् यूयमप्येवमन्वभूताऽतिदुर्लभान् ल । • निश्रेयसं - मोक्षः । आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामि वक्त. अष्टानवतेः प्रतिबोधः । गाथा-३४७ १८४ k TRI
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy