SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः १८३ *********** आज्ञाप्य तस्यामेवाऽथ गुहायां निरगान्नृपः । निधयस्तत्र गङ्गायाः कूले तस्याऽऽगमन्नव ।। ८७ । दाक्षिणात्यं तटं गाङ्गं सुसेनो [ षेणो] साधयत्ततः । एवं षष्टिसहस्राब्द्या सर्व निर्जित्य भारतम् ।।८८ ।। राजधान्यां विनीतायां प्रत्यागाद्भरतेश्वरः । महाराज्याभिषेकोऽभूत्तत्र द्वादशवार्षिकः । । ८९ ।। सर्वान् विसृज्य भूपालानारेभे स्वजनेक्षणम् । दर्श्यमानेष्वथ स्वेषु सुन्दरी दर्शिता यदा ।। ९० ।। दृष्ट्वा पाण्डुमुख क्षामां क्रुद्धः कौटुम्बिकानवक् । अस्ति मे भोजनं किं न रूपेणेयं यदीदृशी ।। ९९ ।। वैद्यो वा नास्ति शिष्टं तैः सर्वमप्यस्ति ते प्रभो ! परं व्रतायाऽऽचामाम्लैः कटकाद्यदिनात् स्थिता ।। ९२ ।। अथ विज्ञाय तद्भावं मुदितो भरताधिपः । श्रुत्वा च समवसृतं प्रभुमष्टापदाचले ।। ९३ ।। चिरादुत्कण्ठितस्तत्र ततो गत्वाऽऽर्षभिर्मुदा । प्रभुं प्रणम्य सुन्दर्ये दापयामास संयमम् ।। ९४ ।। अथ प्रत्यागतोऽयोध्यां नगरीं भरतेश्वरः । व्यज्ञप्यताऽऽयुधागारनियुक्तेनैत्य केनचित् ।। ९५ ।। चक्रं न चक्रशालायामद्यापि विशति प्रभो ! विना त्वदाज्ञां कुर्वत्सु राज्यानि तव बन्धुषु । । ९६ ।। चक्रवर्त्ती ततः सद्यो दूतैस्तानूचिवानदः । राज्येष्वस्ति यदीच्छा वस्तत्सेवा क्रियतां मम ।। ९७ ।। प्रत्युचिरेऽष्टानवतिः कुमारास्तानहंयवः । राज्यं तातेन दत्तं नस्तत्किं भरतसेवया । । ९८ ।। ****** आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीऋषभ० वक्त. भरतस्य षट्खण्ड साधनम् । गाथा - ३४७ १८३
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy