________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः *
१८२
किरातैरापतत्तत्र रणस्ते च पराजिताः । आराधयन् मेघमुखांस्तेऽथ स्वकुलदेवताः ।।७५।। सप्तरात्रं ववर्षस्ते प्रलयाम्भोधरा इव । भरतश्चर्मरत्ने च स्कन्धावारं न्यवेशयत् ।।७६ ।। उपरि छत्ररत्नं च निवेश्याऽमीलयत्तटे । उद्द्योताय मणीरत्नमुपरि न्याससूर्यवत् ।।७७।। तद् ब्रह्माण्डं तदाद्युक्तमण्डजं च जगजनैः । प्रातस्तत्रोप्यते शालिमध्यमाते च भुज्यते ।।७८।। एवं सप्तदिनान्यस्थात्ततो मेघमुखाः सुराः । निर्धाट्यन्ते स्म सर्वेऽपि भरतस्याऽऽभियोगिकः ।।७९।। तेऽथ मेघमुखैरुक्ताः किराताश्चक्रिणं प्रति । आत्मीयं ढौकनं कृत्वा सर्वेऽपि प्रणतिं ययुः ।।८।। तदनु क्षुद्रहिमवद्देवाऽऽज्ञापनहेतवे । चक्री निचिक्षेप शरं स द्वासप्ततियोजनीम् ।।८।। गत्वाऽऽस्थानेऽपतत्तस्य सोऽप्याज्ञां प्राग्वदाश्रितः । लिलेखार्षभकुटाद्रौ चक्री नाम निजं ततः ।।८।। सुसेनो[षेणो]ऽसाधयदथोत्तीर्य सिन्धुं परं तटम् । अथोत्तरं स सेनानी गङ्गातटमसाधयत् ।।८३।। सहाऽवसत् सहस्राब्दी गङ्गया भरतेश्वरः । अथ वैताट्यशैलेऽभूद् द्वादशाब्दी महारण: ।।८४।। राजानौ नमिविनमी चक्रिणेवं विनिर्जितौ । नमिर्गृहीत्वा रत्नानि स्त्रीरत्नं विनमिः पुनः ।।८५ ।। विनयानतसर्वाङ्गो प्राभृतीकृत्य नेमतुः । पश्चात् खण्डप्रपातायां गुहायां नटमालकम् ।।८६।।
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभ वक्त. भरतस्य षटखण्डसाधनम्। गाथा-३४७
KKA
१८२
不準準準準準準羊羊羊