SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः १८१ **** *********** बाणे नामाऽवलोक्याऽथ जातश्चक्री यथादिमः । चूडामणि च बाणं चादायागान्मङ्क्षु शान्तवान् ।।६४।। मुक्त्वा प्राभृतमूचेऽसावऽहं ते पूर्वदिक्पतिः । आज्ञां प्रपद्य यातेऽस्मिंस्तस्याऽप्यष्टाह्निकां व्यधात् ।। ६५ ।। चक्री क्रमेणाऽनेनैव वरदामाप्यसाधयत् । पश्चिमायां प्रभासं च ततः सिन्धुनदीसुरीम् ।। ६६ ।। वैताढ्याद्रिसुरं पश्चात्कृतमालामरं ततः । गुहायाश्च तमिस्त्रायाः सुसेनोऽ [षेणो ] थाऽर्धसैन्ययुक् ।।६७।। गत्वा सिन्धोः परं तटं सर्वमाज्ञापयत् क्षणात् । तमिस्त्रां नाम च गुहामश्वरत्नेऽधिरुह्य सः ।। ६८ ।। एत्य त्रिर्दण्डरत्नेनाऽऽहत्य द्वारं वदत्यदः । उत्पन्नः प्रथमश्चक्रीति श्रुत्वा तद्गुहासुरः ।।६९ ।। द्वारमुद्घाटयत्याशु कृतमालोऽथ सोऽश्वराट् । पश्चात्पदं बाष्पभीत्या याति द्वादशयोजनीम् ।।७० ।। अपसर्तुं पुनः पश्चाद्यदि नो वलते हयः । गुहान्निर्गतबाष्पेन तावदाऽऽस्कद्य दह्यते । ।७१ ।। तस्यां चक्री विवेशाऽथ मणिरत्नेन तेजसा । पञ्चचापशतीमानदैर्घ्यविस्तारशालिनाम् ।। ७२ ।। कुर्वन् शतार्द्धमेकोनमण्डलानां ययौ नृपः । निमग्नोन्मग्नयोर्नद्योः कृतवर्धकिसङ्क्रम: ।। ७३ ।। मज्जत्यश्माऽपि नैकस्यां तृणमप्यन्यतोऽब्रुडत् । ते उत्तीर्य गुहातोऽगाद्बहिश्चक्री ससैनिकः ।।७४।। १. 'पश्चाद्यावतावलते' प प, ख ल । अश्मन् (पु) पाषाणः । ************** ****** आ. नि. सामायिकनिर्युक्तिः निर्गमद्वारे श्रीऋषभस्वामि वक्तव्यता भरतस्य षट्खण्डसाधनम् । गाथा - ३४७ १८१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy