________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
१७८
*****
तामि 'पूइए चक्कंपि पूइयं पूयणारिहो ताओ । इहलोइयं तु चक्कं परलोयसुहावहो ताओ ।। ३४३ ।
स्पष्टा । अत्र कथा -
क्व सिद्धिसौख्यदस्तातश्चक्रं क्वैहिकसौख्यदम् । विमृश्येति प्रभोः पूजाहेतोः स्वानादिदेश सः ।। ३८ ।। स्वयं तु भरतो राजा मरुदेवीपितामहीम् । स्वामिनस्तीर्थकृल्लक्ष्मीप्राप्त्या वर्धयितुं ययौ ।। ३९ ।। मरुदेवी च देवस्य प्रव्रज्यादिवसादपि । दिवारात्रौ च पुत्रस्य दुःखं मनसि बिभ्रती ।। ४० ।। सुखं नाऽभुङ्क नास्वाप्सीदश्रान्तकृतरोदना । नित्योद्यद्बाष्पनीरोत्थनीलीलुप्तेक्षणाऽभवत् । ।४१।। भरतस्तां तथा दृष्ट्वा बभाषे खिद्यसेऽम्ब ! किम् । तन्नास्त्यैश्वर्यमन्यस्य मातर्यत्तनयस्य ते ।।४२।। तदेहि देवि ! पुत्रस्य पश्य सम्पदमद्भुताम् । तदालोकनमात्रेऽपि जायसे येन निर्वृता ।। ४३ ।। इत्युक्त्वाऽऽरोप्य कुम्भीन्द्रकुम्भपीठं पितामहीम् । भक्त्या तदुपरि छत्रं स्वयं धृत्वाऽचलनृपः ।। ४४ ।। समवसरणासन्नं गतोऽम्बां भरतोऽवदत् । मातः ! पश्य सुतैश्वर्यं गीतादितुमुलं शृणु ।। ४५ ।। शृण्वन्त्या मरुदेव्यास्तदाऽऽनन्दाः प्रवाहिभिः । अवाह्यत दृशोर्नीली नदीपूरेण पङ्कवत् ।। ४६ ।। Parsa पुत्रस्य श्रियमत्यन्तमद्भुताम् । सुधाकुण्डनिमग्नेव जज्ञे सुखमयी क्षणम् ॥ ४७ ॥ अश्रः = नेत्रजलम् ।
आ. नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
* श्रीऋषभस्वामि* वक्त. मरुदेवी* केवलोत्पत्तिः । गाथा - ३४३
१७८
श्र