________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १७३
XXXXXXXXKRI
प्रादुर्भूतानि दिव्यानि वसुधाराऽपतगृहे । चेलोत्क्षेपः कृतो देवैर्देवदुन्दुभयो हताः ।।१५।। पञ्चवर्णपुष्पवृष्टिवृष्टिर्गन्धोदकस्य च । अहोदानमहोदानमुदघोष्यम्बरे सुरैः ।।१६।। तद्देवागमनं वीक्ष्य श्रेयांसगृहमाययुः । लोकाः सर्वेऽपि राजानोऽन्ये च ते च तपस्विनः ।।१७।। श्रेयांसोऽचीकथदऽथा भिक्षेदृग् दीयते जनाः! । सुगतिर्लभ्यतेऽमुत्र दत्ते चैषां सुचेतसाम् ।।१८।। सर्वेऽपि तमऽथाप्राक्षुर्जातमेतत्कथं त्वया । यथा भगवतो भिक्षा दीयतेऽनजलादिका ।।१९।। श्रेयांसः स्माह विज्ञातं जातिस्मरणतो मया । अष्टो भवान् भगवता सहाऽहं भ्रान्तवान् यतः ।।२०।। पृष्टस्तैः कथयामास प्राग्वदेव भवाष्टकम् । स्वप्नानां च फलमिदं यत्प्रभुः प्रतिलाभितः ।।२१।। तदाकर्ण्य जन: सर्वः श्रेयांसमभिनन्द्य च । अमन्दानन्दमेदस्वी स्थानं निजं निजं ययौ ।।२२।। श्रेयांसोऽपि प्रभुर्यत्रावस्थितः प्रतिलाभितः । रत्नपीठं व्यधात्तत्र माऽसौ भूः क्राम्यतां जनैः ।।२३।। तश त्रिसन्ध्यमानर्च लोकोऽप्राक्षीदिदं हि किम् । श्रेयांसः कथयामास युगादिजिनमण्डलम् ।।२४।। लोकेनाऽपि ततो यत्र यत्र तत्रभवान् स्थितः । तत्र तत्र कृतं पीठं सूर्यपीठं क्रमादऽभूत् ।।२५।। ।।३२२।।
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामि
वक्तव्यता प्रथमभिक्षा। गाथा-३२२
藥華藥準準準準準準準準準準準準準樂發
१७३
१. 'सुचेतसा' ल ख ।
तत्रभवान् - पूज्यः ।