SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १७२ ********* श्रेयांसस्तनयस्तस्य यौवराज्यपदास्पदम् । क्रीडत्यद्यापि विश्वश्रीक्रोडान्तर्यद्यशःशिशुः ।।४।। स स्वप्ने मन्दरं शैलं श्यामवर्ण निरक्षत । तदैवामृतकुम्भेनाभ्यषिचत् शुशुभेऽधिकम् ।।५।। राज्ञा दृष्टो भटः स्वप्ने युध्यमानः सहाऽरिभिः । श्रेयांसकृतसाहाय्यो भग्नवान् सोऽथ तद्वलम् ।।६।। श्रेष्ठी सुबुद्धिरद्राक्षीत्स्वप्ने सूर्यमरश्मिकम् । श्रेयांसोंऽशो न्यधाद्रश्मीस्ततः स द्विगुणं बभौ ।।७।। राजाऽऽस्थानेऽथ मिलिताः सर्वे स्वप्नान् न्यवेदयन् । असम्भाव्याः परं स्वप्नाः फलं नायाति तन्मतौ ।।८।। श्रेयांसस्य महालाभो भावीत्युक्त्वा महीपतिः । आस्थानतः समुत्तस्थौ श्रेयांसोऽपि ययौ गृहम् ।।९।। तत्र वातायनासीनः प्रभुमायान्तमैक्षत । सोऽथ दध्यौ मयेदृक्षं नेपथ्यं क्वाप्यदृश्यत ।।१०।। पितामहस्य मे यादृग् जातिस्मृतिरथाऽभवत् । प्राग्भवश्रुतमज्ञासीद् दृष्टं सस्मार चाखिलम् ।।११।। तदेक्षुरसकुम्भं कोऽप्यानयत्प्राभृतेऽस्य च । तमेव कुम्भमादायोपस्थितः स प्रभुं प्रति ।।१२।। प्रभुणाऽपि शुध्यतीति पाणिपात्रं प्रसारितम् । रसः सर्वोऽपि निक्षिप्तः प्रभुरच्छिद्रपाणिकः ।।१३।। न छद्यते बिन्दुरपि शिखाऽब्धेरिव वर्द्धते । स्वामी युगानिमस्तेन वर्षान्ते पारणं व्यधात् ।।१४।। आ. नि. सामायिक नियुक्तिः * निर्गमद्वारे * श्रीऋषभस्वामि। वक्तव्यता प्रथमभिक्षा। गाथा-३२२ १७२ १. श्रेयांसेऽसौ प ।. अंशुः - सूर्यः । * राज्ञ आस्थानम् इति राजास्थानम्, तस्मिन् । 業举華華華華藥業举 जत्र
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy